OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, May 22, 2025

 छत्तीसगढे प्रतिद्वन्द्वः 

२७ मावोवादिनः निहताः। 

एकस्य सुरक्षाभटस्य वीरमृत्युः।

नारायणपुरं> छत्तीसगढस्य बस्तरक्षेत्रे सुरक्षासेनया सह जाते प्रतिद्वन्द्वे २७ मावोवादिनः निहताः। हतेषु मावोवादिनः समुन्नतनेता बसवराजः [६०] अन्तर्भवतीति सूच्यते। 

 संघट्टने छत्तीसगढस्य आरक्षकसेनायाः 'डि आर् जि' विभागस्य एकः भटः वीरमृत्युं प्राप।

 केरले +२ परीक्षापरिणामः अद्य ज्ञायते। 

अनन्तपुरी> उच्चतर - कर्माधिष्ठित उच्चतरविद्यालयानां [Higher secondary - Vocational Higher secondary schools] द्वितीयवर्षपरीक्षाणां परिणामम् अद्य सायं त्रिवादने शिक्षामन्त्री वि शिवन्कुट्टिः  उद्घोषयिष्यति। सार्धचतुर्लक्षं विद्यार्थिनः फलाकांक्षिणः वर्तन्ते।

 दिल्ल्याम्  अत्युष्णस्य पश्चात् धूलीवातः वृष्टिः च।

   दिल्ल्यां मासेषु अत्युष्णस्य विरामः-  वातावरणे झटिति जातः  व्यत्यासः जनान् पीडयति। धूलीवातः वृष्टिः च अधिकं क्लेशम् उत्पादयत्। ह्यः प्रातः ४०° इत्यासीत् तापमानः। सायं काले धूलीवातः शक्ता वृष्टिः च अभवताम्। होरायां ४१ - ७९ कि.मी वेगेन आसीत् वातः। सायं ७:४५ - ८:३० समयेषु दिल्लीप्रदेशेषु सामान्येन सर्वत्र वातः ववौ।

Wednesday, May 21, 2025

 पाक्भीकरतानाच्छादनाय 

'नयतन्त्रशस्त्रक्रिया' समारब्धा। 

नवदिल्ली> पाकिस्थानस्य भीकरतासंवर्धननयम् अधिकृत्य ३३ राष्ट्राणि प्रति विवृणोतुं  सप्तसंख्याकस्य भारतीयसंसद् प्रतिनिधिसंघस्य सन्दर्शनपर्यटनं समारब्धम्। 

  शिवसेनादलस्य श्रीकान्त एकनाथ षिन्डे वर्येण नीयमानः संघः अद्य यू ए ई राष्ट्रं प्रस्थितः। मेय् ३१ दिनाङ्कपर्यन्तं दीर्घितायां यात्रायां यू ए ईम् विना कोङ्गो सियेरा लियोण् लैबीरिया इत्येतानि राष्ट्राणि संघेन सन्द्रक्ष्यन्ते।

 महाराष्ट्रे ५६ जनाः कोविड् बाधिताः।

मुम्बई> महाराष्ट्रे सप्ताहद्वयेन कोविड्वैराणुबाधितानां संख्या ५६ अभवत्। केरलं तमिलनाडु राज्यद्वये अपि अनेके  कोविड्बाधिताः वर्तन्ते। राष्ट्रमशेषं २५७ कोविड् प्रकरणानि प्रस्तुतानि सन्तीति केन्द्र स्वास्थ्यमन्त्रालयेन निगदितम्। 

  भारतं विना चीनः, सिङ्गपुरं, होङ्कोङ् राष्ट्रेष्वपि कोविड् प्रकरणानि अधिकतया वर्तन्ते।

 भारतीयः आणवशास्त्रज्ञः डो एम् आर् श्रीनिवासः दिवंगतः। 


ऊट्टी> राष्ट्रस्य प्रमुखः अणुशास्त्रज्ञः आणवोर्जकम्मीशन् संस्थायाः पूर्वाध्यक्षः च डो एम् आर् श्रीनिवासः [मालूर् रामस्वामि श्रीनिवासः - ९५] ऊट्टिस्थे भवनात् दिवंगतः।

  १९३० तमे वर्षे बङ्गलुरौ भूजातः एम् आर् श्रीनिवासः १९५५ तमे वर्षे आणवोर्जविभागे उद्योगस्थः अभवत्। ततः डो होमि जे भाभावर्येण सह सेवायां राष्ट्रस्य प्रथमम् 'आणव रियाक्टर्' अप्सरायाः निर्माणे भागं स्वीचकार। संवत्सरेषु अतीतेषु राष्ट्रस्यआणवनयरूपीकरणे मुख्यांशं वहति स्म। १९८७ तमे वर्षे भारताणवोर्ज आयोगस्य अध्यक्ष अभवत्। 

 Nuclear power corporation of India इत्यस्य प्रथमः अध्यक्ष आसीत्। राष्ट्रस्य पद्मश्री पद्मविभूषण पुरस्काराभ्यां समादृतः। अस्य अन्त्येष्टिक्रियाः गुरुवासरे वेल्लिङ्टणे विधास्यन्ति।

 विख्यातः ज्योतिश्शास्त्रज्ञः डो जयन्त नार्लिकरः दिवंगतः। 


पूनै> होय्लि-नार्लिकर गुरुत्वाकर्षणसिद्धान्तेन अन्ताराष्ट्रप्रसिद्धिमाप्तवान् भारतीयः ज्योतिश्शास्त्रज्ञः डो जयन्त नार्लिकरः दिवंगतः। कुजवासरस्य प्रत्युषसि पूणैस्थे स्वभवने आसीत् अन्त्यम्। ८६ वयस्कः आसीत्। 

  केंब्रिड्ज् विश्वविद्यालये सर् फ्रेड् होय्ली इत्यनेन शास्त्रज्ञेन सह प्रपञ्चस्य उत्पत्तिमधिकृत्य विविधानि गवेषणानि डो जयन्तः कृतवान्। 'होय्लि-नार्लिकर गुरुत्वाकर्षणसिद्धान्तम्' इति नूतनं सिद्धान्तं प्रपञ्चोत्पत्तेः  नूतनसिद्धान्तत्वेन अङ्गीकृतम्। 

  १९३८ तमे वर्षे महाराष्ट्रे लब्धजन्मा जयन्त नार्लिकरः १९६५ तमे वर्षे पद्मभूषणपुरस्कारेण समादृतः। २००४ तमे पद्मविभूषणं च तेन लब्धम्।

Tuesday, May 20, 2025

 गासायाम् इदानीन्तन अवस्था असहनीया। इस्रायेलं प्रति क्रयविक्रयचर्चां समाप्य यु के स्थानपतिः प्रत्याहूतः।

   लण्डन्> गासायां शताधिकजनानां जीवहानेः कारणभूतेन नूतनाक्रमणेन  इस्रायेलं विरुध्य अन्ताराष्ट्रियस्तरे सम्मर्दः सुदृढः अभवत्। इस्रायेलस्य मिथः क्रयविक्रयचर्चा समापिता इति यु के राष्ट्रेण प्रतिवेदिता। इस्रायेलस्य दूतः प्रत्याहूतः च।

Monday, May 19, 2025

 सर्वेषां अभयं दातुं भारतं किं वा धर्मशाला?

१४० कोटि जनाः निवसन्त्यत्र - सर्वोच्च न्यायालयः

    भारते अभयं प्रार्थितस्य श्रीलङ्कादेशीयस्य याचिकां तिरस्कृत्य भारतस्य सर्वोच्चन्यायालयेन एवम् अवदत् यत् सर्वान् विदेशीयान् स्वीकर्तुं भारतं धर्मशाला न। १४० कोटि जनाः  निवसन्त्यत्र। एल् टी टी नाम निरोधितसंघटनेन सह बन्धः अस्ति इति दृष्ट्वा २०१८ तमे निग्रहीतस्य श्रीलङ्कादेशीयस्य याचिका एव न्यायालयेन तिरस्कृता। 

    २०१८ तमे न्यायालयेन दशवर्षात्मकस्य कारावासाय दण्डितः आसीत् एषः।  २०२२ मद्रास् उच्चन्यायालयेन दण्डः ७ वर्षः इति न्यूनीकृतः।  दण्डकालानन्तरं भरतात्  बहिः गन्तव्यम् इति न्यायालयेन आदिशत् च। नियमानुसारेण पारपत्रेण भारते आगतः, भार्या अपत्यानि भारते स्थिरवासं कुर्वन्तः सन्ति  अतः तस्मै भारते वासाय अनुज्ञा आवश्यकी इति याचिकायां सूचितवान्। किन्तु सर्वोच्चन्यायालयेन याचिका तिरकृता। 

 परिस्थितिसंरक्षणाय निष्किञ्चनोन्नमनाय च मार्पापावर्यस्य उद्घोषणम्। 

स्थानारोहणानन्तरं मार्पापावर्यः जनान् अभिवादयति। 

लियो १४ तमः मार्पापारूपेण अवरोधितः।

वत्तिकान सिटी> परिस्थितिचूषणं निष्किञ्चनजनानां पार्श्ववत्करणं च समापयियव्यमिति नूतनमार्पापा लियो १४ तमः उदघोषयत्। रविवासरे सम्पन्नस्य स्थानारोहण समारोहस्य अंशतया विधत्ते दिव्यबलिकार्यक्रमे भाषमाणः आसीत् पापावर्यः। 'पारीस् पर्यावरण सन्धेः' अपसृतस्य यू एस् राष्ट्रस्य उपराष्ट्रपतिः जे डि वान्सम् अभिव्याप्य अनेकान् विश्वनेतृजनान् लक्षद्वयं विश्वासिजनान् च साक्षीकृत्य आसीत् पापावर्यस्य सन्देशः। 

  ईश्वरप्रेमसाक्षात्काराय सर्वविभागजनानामपि अधिकारः अस्तीति पापावर्यः अवोचत्। युक्रेन-गासायुद्धमपि तेन परामृष्टम्।