OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, May 25, 2025

 राहुल गान्धी जम्मु काश्मीरं सन्दृष्टवान्। 

पूञ्च् निवासिनां कृते आश्वासवचनानि प्रदत्तानि। 

पूञ्च् प्रदेशस्थैः छात्रैः सह राहुल गान्धी । 

जम्मु काश्मीरं> पाकिस्थानस्य आक्रमणे ये वासस्थानानि विनाश्य सङ्कटमनुभवन्ति, ये व्रणिताः जाताः तान् समाश्वासयितुं राष्ट्रस्य विपक्षनेता राहुल गान्धी गतदिने जम्मु काश्मीरस्य सीमाग्रामान् सन्दृष्टवान्। 

  पाकिस्थानस्य अग्निशस्त्राक्रमणात् भयचकितान् पूञ्च् निवासिनः  बालकान् राहुलः समाश्वासितवान्। द्वौ छात्रौ अभिव्याप्य अष्टविंशति जनाः अत्र मृताः। उपसप्ततिजनाः क्षताः जाताः। तान्  विपक्षनेता आश्वासवाक्यैः स्वप्रेमं प्रकाशितवान्।

 शुभमान् गिलः निकषक्रिकट् दलस्य नायकः। 

शुभमान् गिलः। 

मुम्बई> भारतस्य निकषक्रिकट् दलस्य नायकरूपेण श्रेष्ठक्रीडकः शुभमान् गिलः नियुक्तः। मुख्यनिर्णेता अजित् अगार्करः नियुक्तिमुद्घोषितवान्। 

  निकषस्पर्धायाः निवृत्तस्य रोहित शर्मणः स्थाने अस्ति गिलस्य नियुक्तिः। जूण् विंशे  दिनाङ्के आरभ्यमाणायाम्  इङ्लाण्टं विरुध्य निकषस्पर्धापरम्परायां गिलस्य नेतृत्वे भारतं क्रीडिष्यति। 

  ऋषभपन्तः उपनायको भविष्यति। अष्टादशाङ्गोपेतं दलमपि विज्ञापितम्।

Saturday, May 24, 2025

  हार्वर्ड्-विश्वविद्यालये विदेशीयविद्यार्थिनां प्रवेशं निरुद्ध्य ट्रम्पस्य प्रशासनम्।

   ट्रम्प्-शासनस्य नवीनया नीत्या हार्वर्ड्-विश्वविद्यालये अध्ययनं कुर्वन्तः विदेशीयाः छात्रेभ्यः प्रवेशं लब्धुं न शक्नुवन्ति। भारतदेशात् अपि आगतान् छात्रान् इयं नीतिः प्रबाधते।

  अमेरिकादेशे तेषां छात्र-वीसाधिकारः नष्टः भविष्यति चेत् तैः अन्यस्मिन् संस्थायां स्थानपरिवर्तनं करणीयम् इति सूचना अपि प्रदत्ता। अमेरिकस्य गृहमन्त्रालयस्य अनुसारं, हार्वर्ड्-विश्वविद्यालयः यहूदविद्वेषं चीनदेशस्य कम्युनिष्ट्-पार्टीसंगं च प्रोत्सहयति इत्यपवादाः अपि दत्ताः। 

  ट्रम्प्-शासनम् आदेशं दत्तवन् यत् हार्वर्ड्-विश्वविद्यालयेन तत्र विद्यमानानां सर्वेषां विदेशीय विद्यार्थिनां विवरणानि त्रिदिनेभ्यः अन्तः समर्पयितव्यानि। हार्वर्ड्-विश्वविद्यालयः स्पष्टीकरणं दत्तवान् यत् एषा नीतिः न विधिसम्मता, अपि तु वैयक्तिकप्रतिकारस्य रूपेण कृतः अन्यायः। शासनस्यायं निर्णयः सहस्रशः छात्रान् प्रबाधते इति।

 पोलण्ट् कायिकक्रीडा

नीरज चोप्राय रजतम्। 


वार्सा> पोलण्टराष्ट्रे जानुस् कुसोसिन्की कायिकक्रीडास्पर्धासु कुन्तप्रक्षेपणे भारतस्य नीरज चोप्रः रजतपतकं सम्प्राप्तवान्। तस्य षष्ठे उद्योगे ८४. १४ मीटर् दूरं प्रक्षिप्य एव द्वितीयस्थानलब्धिः। प्रथमस्थानं जर्मनेः जूलियन् वेबर् प्राप। ८६. १२ मीटर् सः प्रक्षिप्तवान्। 

 गतसप्ताहे दोहायां डयमण्ट् लीग् कायिकक्रीडायां नीरजः ९०. २३ मीटर् प्रक्षिप्य द्वितीयस्थानं प्राप्तवान् आसीत्। तादृशं प्रागत्भ्यं प्रदर्शयितुं पोलण्टे तेन न शक्यते स्म।

 गासायां लक्षशः जनाः दौर्भिक्षामनुभवन्ति। 

युद्धविरामाय इस्रयेलस्य उपरि संपीडनम्। 

गासा सिटी> गासां संगृहीतुं इस्रयेलेन युद्धे अनुवर्तिते लक्षशः जनाः भोज्यवस्तूनि अभिव्याप्य अवश्यवस्तुभ्यः महान्तं क्लेशमनुभवन्ति। भोज्यानि पानजलानि च अलब्ध्वा बालकाः मृतप्रायाः वर्तन्ते। महिलानां शिशूनां च रोगप्रतिरोधशक्तिः विनष्टा। 

  मार्चमासतः गासायाम् इस्रयेलेन सम्पूर्णोपरोधः विधत्तः इत्यस्मादेव जनानां सङ्कटस्य हेतुः। नवसहस्रं बालकाः इदानीं पोषकाहारस्य क्षयेन परिचर्यायां वर्तन्ते इति यूणिसेफ् संस्थया सूच्यते। किन्तु तादृशाः ७१,००० बालकाः सन्तीति अन्यया संस्थया सूच्यते।

 केरले अतितीव्रवर्षः भविष्यति। 

जनपदद्वये रक्तजागरूकता, नवसु जनपदेषु ओरञ्च् जागरूकता।

अनन्तपुरी> मण्सूण् वर्षाकालस्य प्रारम्भतया केरले अतितीव्रवर्षः कल्पितः। शनिवासरे कण्णूर् कासरगोड् जनपदयोः अतितीव्रवर्षस्य  रक्तजागरूकता उद्घोषिता। अनन्तपुरीमभिव्याप्य नवसु जनपदेषु ओरञ्च् जागरूकता प्रख्यापिता। 

  इतःपर्यन्तं आकेरलं तीव्रवर्षः अनुभूयते। वर्षदुष्प्रभावे द्वौ मृत्यू अभवताम्। बहुत्र झंझावातेन कष्टनष्टानि अजायन्त।

Friday, May 23, 2025

 संयुक्तराष्ट्रसंघे भारतस्य कठोरं प्रत्युत्तरम् ‘पाकिस्थानः भीकरवादिनः रक्षति’ इति आरोपः।

   संयुक्तराष्ट्रसंघे पाकिस्थानस्य प्रतिनिधिना सिंधुनदी-जलसन्धिं उद्धृत्य "जलम् जीवनम् अस्ति, न तु युद्धाय आयुधम्" इत्युक्ते, भारतः तीव्रं प्रत्युत्तरं प्रदत्तवान्।

    भारतेन उक्तम् - पाकिस्थानः दिर्घकालादारभ्य प्रायेण- भीकरप्रवर्ततेन भारतं पीडयति। मुम्बई-आक्रमणं, पुलवामा-हिंसा च एतस्य स्पष्टानि प्रमाणानि। भारतस्य विकासं विघ्नं कर्तुम् एव पाकिस्थानस्य प्रयत्नः। भीकारान् प्रति आश्रयं दत्त्वा, पाकिस्थानः  तान् रक्षति, अपितु सामान्यजनानपि तेषां समं पश्यति। अतः, जन-संरक्षणे येषां दृष्टिः विकृतः, तेषां सामान्यजनरक्षणस्य विषये वक्तुम् अर्हता नास्तीति भारतस्य प्रतिनिधिः संयुक्तराष्ट्रसंघे अवदत्।

 नूतनीकृतानि १०३ रेल् निस्थानानि राष्ट्राय समर्पितानि। 

नवदिल्ली> अमृत भारताभियोजनायाम् अन्तर्भाव्य नूतनीकृतानि १०३ रेल् निस्थानानि प्रधानमन्त्री नरेन्द्रमोदी राष्ट्राय समार्पयत्। 

  अभियोजनायाः प्रथमसोपानमेव गुरुवासरे उदघाटयत्। अधिकतमानि निस्थानानि उत्तरप्रदेशे विद्यन्ते - १९। केरलात् त्रीणि निस्थानानि नूतनीकृतानि -वटकरा, चिरयिन्कीष़्,माहि। आराष्ट्रं १३३७ रेल् निस्थानानि नूतनीकरिष्यन्ति।

 यू एसे द्वौ इस्रयेलीयौ स्थानपतिकार्यकर्तारौ [Embassy Officers] भुषुण्डिप्रयोगेण मृतौ। 

वाषिङ्टणः> अमेरिकायां वाषिङ्टणे जूतीयवस्तुप्रदर्शनालयस्य  [Museum] समीपं इस्रयेलस्य स्थानपतिकार्यालयस्य द्वौ अधिकारिणौ भुषुण्डिप्रयोगेण मृतौ। प्रादेशिकसमयानुसारेण बुधवासरे सायमासीदियं दुर्घटना। यू एसे जूतसमुदायेन आयोजिते कार्यक्रमे भागमूढ्वा निवृत्तान् चतुरः लक्ष्यीकृत्य  भुषुण्डिप्रयोगः कृतः। गासायाम् इस्रयेलस्य सैनिकाक्रमणस्य भूमिकायामासीत् आक्रमणम्। 

  अपराधीति सन्दिह्यमानः षिकागोनिवासी एलियास् रोड्रिग्स् नामकः त्रिंशत् वयस्कः निगृहीतः।

 कन्नडसाहित्यकारी बानु मुष्ताख् बुक्कर् पुरस्कारेण समादृता।

बानु मुष्ताखः बुक्कर् पुरस्कारेण। 

लण्टनं> कन्नडसाहित्यकारी सामाजिक प्रवर्तका नियमवादिनी च बानु मुष्ताख् अस्य वर्षस्य बुक्कर् अन्ताराष्ट्रपुरस्कारेण समादृतवती। तस्याः १२ कथानां समाहारः 'हार्ट् लाम्प्' इत्यस्य ग्रन्थस्य आङ्गलभाषानुवादमवलम्ब्य कन्नडभाषायै इदंप्रथमतया इयं पुरस्कारलब्धिः।