OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, July 25, 2025

 भारत-ब्रिटनयोर्मध्ये स्वतन्त्रव्यापारसन्धिः उपस्थापिता।

९९% भारतीयोत्पन्नानां  ब्रिटने करविमुक्तिः। 

नवदिल्ली> वर्षत्रयस्य उभयपक्षचर्चानां नयतन्त्रव्यवहाराणामनन्तरं भारत-ब्रिटनयोर्मध्ये स्वतन्त्रव्यापारसन्धिः उपस्थापिता। भारतात् ब्रिटनं प्रति आयातानि ९९% वस्तूनि  करमुक्तानि भविष्यन्ति। तथा च ब्रिटनात् भारतमायातानां ९०% वस्तूनां करः न्यूनीकरिष्यते।

 महिला विश्वचतुरङ्गचषकः भारतमागच्छति। 

दिव्या देशमुखः कोनेरु हम्पी च अन्तिमस्पर्धायाम्। 

फिडे महिलाविश्वचषकचतुरङ्गस्पर्धायाः अन्तिमस्पर्धायां प्रतिद्वन्द्विन्यौ कोनेरू हम्पी, दिव्या देशमुखश्च। 

बातुमी (जोर्जिया)> फिडे महिलानां चतुरङ्गस्य विश्वचषकस्पर्धायाः अन्तिमप्रतिद्वन्द्वे भारतस्य क्रीडिके स्पर्धिष्येते। प्रथमे पूर्वान्त्यप्रतिद्वन्द्वे दिव्या देशमुख नामिका १९ वयस्का  भूतपूर्वा विश्ववीरा चीनीया टान् सोङ्की नामिकां पराजित्य अन्तिमस्पर्धां प्राविशत् (१.५ - ०.५)। 

  इतरस्मिन् पूर्वान्त्यप्रतिद्वन्द्वे  भारतस्यैव कोनेरु हम्पी चीनस्य वरिष्ठा क्रीडिका लेय् टिन् जि नामिकां समस्थितिभञ्जकस्पर्धायां [Tie breaker]  ५ - ३ अङ्कक्रमेण पराजित्य अन्तिमचरणं प्राविशत्। 

  अन्तिमस्पर्धायाः प्रथमक्रीडा २६ तमे दिनाङ्के, द्वितीयक्रीडा २७ तमे दिनाङ्के च सम्पत्स्येते। समस्थितिः भवेत्तर्हि २८ तमे दिनाङ्के आयोज्यमानेन समस्थितिभञ्जकेन विजेत्री निश्चेष्यते।

Thursday, July 24, 2025

 केरले वृष्टिः तीव्रतरा अनुवर्तते। 

श्वः सर्वेषु जनपदेषु जाग्रत्तानिर्देशः। 

जनपदद्वये अनध्ययनदिनम्। 

कोच्ची> केरले अतिवृष्टिः वृष्टिदुष्प्रभावश्च अनुवर्तेते। शुक्रवासरे पञ्च जनपदेषु ओरञ्चजाग्रत्ता उद्घोषिता। अन्येषु पीतजागरूकता च। 

  शुक्रवासरे एरणाकुलम् इटुक्की जनपदस्थयोः सर्वेषु विद्यालयेषु अनध्ययनम् विज्ञापितम्।

 महिलाक्रिकट् - 

इङ्गलण्टं विरुध्य भारतस्य १३ धावनाङ्कानां विजयः, परम्परा च। 

लण्टनं> भारतेङ्गलण्टयोः मध्ये सम्पन्नायां महिलानां तृतीय एकदिनस्पर्धायां १३ धावनाङ्कैः भारतं इङ्गलण्टं पराजयत। एकस्मिन् कन्दुके अवशिष्टे आसीत् भारतस्य विजयः। अनेन प्रतिद्वन्दत्रयात्मिका परम्परा २ -१ इति क्रमेण भारतेन स्वायत्तीकृता। 

  तृतीये एकदिने प्रथमं कन्दुकताडनं कृतवता भारतदलेन पञ्च द्वारकान् विनश्य ३१८ धावनाङ्कानि सम्पादितानि। तत्र हर्मन् प्रीत कौर् इत्यनया शतकं प्राप्तमासीत्। प्रत्युत्तरताडनचरणे ४९. ५ क्षेपणचक्रेषु ३०५ धावनाङ्कैः सर्वाः बहिर्नीताः। क्रान्ति गौड् नामिका कुमारक्षेपिका षट् द्वारकाणि सम्पादितवती।

Wednesday, July 23, 2025

 'एफ् - 35 बी' प्रतिडयितम्। 

अनन्तपुरी> अप्रतीक्षतया आगत्य अन्ताराष्ट्रियचर्चाणां, किंवदन्तीनां, परिहासानां च कारणभूतं ब्रिट्टनस्य युद्धविमानं - एफ् - 35 बी अनन्तपुरीतः उड्डयितम्। अमेरिकया विनिर्मितमेतद्विमानं ३९ दिनेभ्यः पूर्वमेव अनन्तपुरी विमाननिलयम् अवतारितम्।   

  आरबसमुद्रे संयुक्तसैनिकाभ्यासार्थं विमानवाहिनिमहानौकायाः उड्डयितं विमानं पर्यावरणदुष्प्रभावेणेति श्रूयते, जूण् १४ तमे दिनाङ्के रात्रौ आकस्मिकेन अवतारितम्। ततः यन्त्रक्षतिरपि सञ्जाता। तां परिहर्तुं एतावन्ति दिनानि आवश्यकानि।

 चतुरङ्गविश्वचषकः भारते।

नवदिल्ली> फिडे संघटनेन आयोज्यमानः विश्वचतुरङ्गचषकः  ओक्टोबर् ३० तमदिनाङ्कतः नवम्बर् २७ तमदिनाङ्कपर्यन्तं भारते विधास्यति।

  विश्वस्मिन् २०६ प्रमुखाः चतुरङ्गक्रीडकाः विश्वचषकाय स्पर्धिष्यन्ते।

 प्रधानमन्त्रिणः विदेशसन्दर्शनम् अद्य आरभते। 

नवदिल्ली> प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे द्विदिवसीयसन्दर्शनार्थं  ब्रिटनं गच्छति। ब्रिटनस्य प्रधानमन्त्री केयर् स्टार्मर् इत्यनेन सह विविधप्रकणेषु चर्चां करिष्यति। 

  ततः २५ तमे दिनाङ्के मोदिवर्यः मालिद्वीपं सन्द्रक्ष्यति। २६ तमे दिनाङ्के द्वीपस्य ६० तमे स्वतन्त्रतादिनोत्सवे मुख्यातिथिः भविष्यति।

Tuesday, July 22, 2025

विश्वविख्याते कण्वाश्रमे पुन: अभवत् संस्कृतगुञ्जनम्।

   परमार्थवैदिकगुरुकुले, कण्वाश्रमे, कोटद्वारे दशदिनात्मकः सरलसंस्कृत -संभाषणशिबिरः सम्पन्न:। छात्रेभ्यः सरलपद्धत्या संस्कृतशिक्षायाः उद्देश्येन एतत् शिबिरं संस्कृतभारती-कोटद्वारं तथा परमार्थवैदिकगुरुकुल-कण्वाश्रम: इत्येतयोः संयुक्ततत्त्वावधाने आयोजितम्।


समापनसमारोहे डॉ. रमाकान्तः कुकरेती, सेवानिवृत्तः प्रधानाचार्यः, संस्कृतभारती कोटद्वारनगराध्यक्षः च मुख्यातिथिरूपेण उपस्थिताः। मुख्यशिक्षकः कुलदीपः मैन्दोला, मनमोहनः नौटियालः (प्रधानाचार्यः, परमार्थवैदिकगुरुकुलं), राकेशः कण्डवालः (योगशिक्षकः), सिद्धार्थः नैथानी, प्रशान्तः जोशी, विकासः, अम्बेशः पन्तः, प्रवीणः थापाः, श्वेता रावत:, सुदीपः थपलियालः, सुभाषः, रावताचार्यः च गुरुकुलस्य अध्यापकाः च सपरिवारं सप्ततिः छात्राः च उपस्थिताः आसन्।

 बङ्गलादेशे वायुसेनाविमानं  विद्यालयस्योपरि पतित्वा १९ मरणानि।

धाक्का> बङ्गलादेशस्य  वायुसेनायाः परिशीलनविमानं धाक्कायां विद्यालयभवनस्य उपरि निपत्य नवदश जनाः मृत्युमुपगताः। ११६ जनाः आहताः। मृतेषु आहतेषु च  भूरिशः छात्राः भवन्ति। 

  सोमवासरे मध्याह्ने आसीत् दुर्घटना। चीनानिर्मितं एफ् - ७ बी जी ऐ इति विमानमेव धाक्कानगरसमीपम् उत्तराप्रदेशस्थस्य मैल् स्टोण् स्कूल् आन्ड् कोलेज् इति विद्यालयभवनसमच्चयस्य उपरि निपत्य उग्रशब्देन दग्धम्। साङ्केतिकन्यूनता एव दुर्घटनाहेतुरिति सूच्यते।

 वि एस् वर्याय अनन्तपुर्याम् अन्तिमोपचाराः समर्प्यन्ते। 

अनन्तपुर्यां मुख्यमन्त्री पिणरायि विजयः पुष्पचक्रं समर्पयति। समीपे इतरमन्त्रिणः राष्ट्रियनेतारश्च। 

श्वः जन्मग्रामे अन्त्यविश्रान्तिः।

अनन्तपुरी> ह्यः दिवंगताय केरलस्य भूतपूर्वमुख्यमन्त्रिणे जननायकाय च वि एस् अच्युतानन्दाय     अन्त्याभिवाद्यं समर्पयितुं दशसहस्रशः जनाः कर्मक्षेत्रम् अनन्तपुरीनगरं प्रवहन्ति। अद्य प्रातः आरभ्यः दर्बार् सभामण्डपं प्रति राज्यस्य विविधजनपदेभ्यः तस्य अनुयायिनः आराधकाः सामान्यजनाश्च स्वेषां जननायकम् एकमात्रमपि सन्द्रष्टुं आगच्छन्तः सन्ति। राजनैतिक-सांस्कृतिक-साहित्य-धार्मिकक्षेत्रेषु विराजमानाः प्रमुखाः अनन्तपुरीं प्राप्यमाणाः सन्ति। साम्यवादीदलस्य देशीयनेतारः अनन्तपुरीं प्राप्य अन्त्याभिवाद्यं समर्पितवन्तः। 

   अद्य मध्याह्नानन्तरं द्विवादने राजधानीनगरात् पुष्पालङ्कृते बस् याने राष्ट्रियवीथिमवलम्ब्य आलप्पुष़ जनपदस्थं 'वेलिक्ककं' भवनं प्रति विलापयात्रारूपेण अच्युतानन्दवर्यस्य भौतिकशरीरं नेष्यति। बुधवासरे प्रातः आलप्पुष़ा सि पि एम् दलस्य जनपदीयकार्यालये सामाजिकदर्शनस्य सुविधा स्यात्। सायं त्रिवादने औद्योगिकबहुमत्या सह आलप्पुष़ा श्मशाने शवसंस्कारकर्माणि विधास्यन्ति।