श्रीनगरम् > काश्मीरस्य कुप्वारा जनपदे सीमारेखायाः समीपे संवृत्ते संघट्टने पञ्च भीकरान् भारतसैन्यं हन्ति स्म। द्वौ भटावपि निहतौ। चौक्की बाल् प्रविश्यायां कस्मिंश्चित् गृहे भीकराःनिलीय वर्तमाना इति ज्ञात्वा एव सुरक्षासेना अत्र प्राप्ताः।
न्यूदिल्ली > मुम्बै भीकराक्रमणस्य सूत्रधारः डेविड् कोल् मान् हेड्लेः वाक्यमनुसृत्य पाक्किस्थानं भीकरराष्ट्रत्वेन प्रख्यापनीयमिति बि. जे.पि दलानां मतम् । तदर्थं नूतनकार्याणि नय तन्त्रेषु स्वीकरणीयानि । पाक् गुप्तचराणां संस्थया आदड़्कवादीनां सीमलड़्घने प्रोत्साहनं करोतीति हेड्लेः उक्त्या व्यक्तः। लोकराष्ट्रणां मध्ये पाक्किस्तानं निराकर्तुं भारतं श्रद्धालुः भवेयमिति भा.ज.पा. दलस्य देशीयकार्यकर्ता सिद्धार्थनाथ सिंहेन उक्तः।
इस्रत् जहानायाः कलहमृत्युः निर्वाचनवेलायाम् अद्यतनविपक्षस्य अनुकूलं यथा, तथा परिणामयितुं ते ऐच्छन्। इस्रत् जहाना लष्कर् तोयिबायाः 'सन्नद्धमृत्युयोद्ध्री' इति हेड्लिना निर्दिष्टम्। गुजरात्त् देशे इस्रत् गोलिकाप्रहरणेन कारणं विना मारिता इति कुप्रचारः आसीत्।
ज्ञानपीठ-पद्मविभूषण-पद्मश्रीपुरस्कारैःआदृतः आसीत्। महाकविकालिदासस्य जीवनचरितमुपजीव्य विरचितम् उज्जयिनीकाव्यमवलम्ब्य तस्मै ज्ञानपीठपुरस्कारः दत्तः। कैरलीचलच्चित्रगानशाखायामपि अस्य योगदानं महत्तरमासीत्। १३ वारं उत्तमगानरचयितुः पुरस्कारेण आदृतः।त्रिवारं देशीयपुरस्कारमपि प्राप्तः।











