वार्तामुक्तकानि।
मोदी पत्रिकां समर्पितवान्। वाराणसी > प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्थे वाराणसी मण्डले भा ज पा स्थानाशिरूपेण नामनिर्देशपत्रिकां समर्पितवान्। प्रमुखानां सख्यदलानां नेतृभिः सह आगत्य वाराणसी जनपदाधिकारिणः सुरेन्द्रसिंहस्य सकाशमासीत् पत्रिकासमर्पणम्।
ऐ एन् एस् विक्रमादित्ये अग्निबाधा - एकः मृतः।
मुम्बई > भारतस्य एकैकस्यां विमानवाहिनिमहानौकायां 'ऐ एन् एस् विक्रमादित्य' नामिकायां गतदिने अग्निबाधा सञ्जाता। महानौकाकर्मचारिभिः झटित्येव अग्निशमने कृते अपि तस्मिनुद्यमे डि एस् चौहान् नामकः लफ्टनन्ट् कमान्डर् पदस्थः मृतः। महानौकायाः कार्यक्षमता अवशिष्टा वर्तते।
श्रीलङ्कास्फोटनपरम्परायाः सूत्रधारः हतः।
कोलम्बो > श्रीलङ्कास्फोटनपरम्परायाः सूत्रधारः इति उच्यमाणः इस्लामिकातङ्कवादी सह्रान् हाषिं नामकः स्फोटनेषु अन्यतमे एव हतः इति स्थिरीकृतः। कोलम्बोस्थे 'षान्ग्रिला'ख्ये पञ्चनक्षत्रपदीये निवाससमुच्चये कृते स्फोटने असीदस्य मृत्युः इति श्रीलङ्काराष्ट्रपतिना मैत्रीपाल सिरिसेनेन उक्तम्। श्रीलङ्का, केरलं, तमिलनाट् इत्येतेषु राज्येषु इस्लामिकशासनं संस्थापनीयमिति सामाजिकमाध्यमद्वारा सह्रान् हाषिमेन उक्तमासीत्।
















