तमिलनाट्।
उदयनिधि स्टालिनः निगृहीतः; परं विमुक्तः।
![]() |
| उदयनिधिं स्वगृहात् निगृह्य नयति। |
चेन्नै> तमिलनाटस्य मुख्यमन्त्रिणं जोसफ विजयं चलच्चित्राभिनेत्रीं तृषां च योजयित्वा परोक्षेण द्वयार्थद्योतकत्वेन अपहसितवान् इत्यारोप्य विपक्षनेता उदयनिधि स्टालिनः मङ्गलवासरे तञ्चावूरस्थेन आरक्षकदलेन निगृहीतः। ततः मद्रास् उच्चन्यायालयस्य व्यवधानेन परिपृच्छानन्तरं ह्यः रात्रावेव विमुक्तः।
महिलानां अभिमानं विरुध्य कोSपि वा भवतु, अतिक्रमः न क्षन्तव्यः इति मुख्यमन्त्रिणा प्रोक्तम्। किन्तु अद्य तमिलनाट् विधानसभायाः प्रथमे आयव्ययपत्रे अद्य प्रस्तूयमाने विपक्षदलस्य विमर्दनमेव प्रशासनेन लक्ष्यीक्रियते इति डि एम् के नेतृत्वेन आरोपितम्। तमिलनाटे टि वि के -डि एम् के पक्षयोर्मिथः संघर्षावस्था अस्ति।



















