OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 28, 2026

 केरलीयसंस्कृतशिक्षकस्य व्यतिरिक्ता संस्कृतशिक्षापद्धतिः राष्ट्रियस्तरे श्रद्धाम् आवहति। 

'मन् की बात' कार्यक्रमे प्रधानमन्त्रिणः प्रशंसा।

अभिलाष् टि प्रतापः 'अक्षरकन्दुकपत्रम्' उपयुज्य कक्ष्यां चालयति। 

कोच्ची> दशाब्दाधिककालं यावत् संस्कृतशिक्षणक्षेत्रे नूतनानि विभिन्नानि च प्रवर्तनानि आविष्कृत्य संस्कृतभाषाध्यापनं प्रचरणं च कुर्वन् संस्कृतशिक्षकः अभिलाष् टि प्रतापः पुनरपि राष्ट्रियश्रद्धाम् आवहति। फिफा विश्वचषकस्पर्धायाः उत्साहं स्वांशीकृत्य तत्  छात्रेषु संक्रामयितुं तद्वारा संस्कृताध्ययनं ललितम् उत्साहपूर्णं च कर्तुं तेन आविष्कृता 'अक्षरकन्दुकं' नाम पद्धतिः प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रशंसामवाप। प्रधानमन्त्रिणः गते मनोगतम्  [मन की बात] इति प्रतिमासकार्यक्रमे आसीत् अक्षरकन्दुकमधिकृत्य मोदिवर्यस्य परामर्शः। 

  केरले एरणाकुलं जनपदे 'चिट्टूर् सेन्ट् मेरीस्' माध्यमिकविद्यालये अध्यापकः अस्ति अभिलाष् टि प्रतापः। संस्कृतम् इत्येतत्  केवलं पाठपुस्तकभाषारूपेण अदृष्वा, समाजजीवनस्य अंशरूपेण परिकल्प्य छात्राणां समाजस्य च हिताय प्रयोजकीकर्तुं बहूनि प्रवर्तनानि अभिलाषवर्येण उपस्थापितानि। कायिक-पर्यावरणसंरक्षण-भारतपैतृक-कला एवं संस्कृतिविषयाधिष्ठिताः परियोजनाः संस्कृतभाषां प्रति संयोज्य तेन आविष्कृताः प्रवृत्तिपथमानीताः च। "संस्कृतं सामाजिकहिताय" इत्येव तस्य शिक्षणप्रवर्तनानां मुखमुद्रा।

अक्षरकन्दुकपत्राणि। 

 'अक्षरकन्दुकं' योजनायां  संस्कृताक्षराणां पदानां च अयत्नावबोधनाय  पादकन्दुकक्षेत्रं प्रति संयोज्य अनुरूपाणां पदानाम् आकर्षकाणि  सूचनापत्राणि [Posters] घोषणाफलकानि [Placards] च  चित्राणां साहाय्येन निर्मितानि। छात्रेषु पादकन्दुके भाषापठने च युगपत् तात्पर्यं जनयितुं एतत् प्रवर्तनम् सहायकम् अभवदिति अभिलाषवर्येण प्रोक्तम्। "क्रीडामः पादकन्दुकं, पठाम संस्कृतम्" इत्याशयम् आधारीकृत्यैव इयं पद्धतिः आविष्कृता इति सः अवोचत्। 

  केरल संस्कृत अध्यापक फेडरेषन् नामकसंघटनस्य एरणाकुलं जनपदाध्यक्षः चास्ति अभिलाषः। तस्य पत्नी शारी सि एस् अपि इतरस्मिन् माध्यमिकविद्यालये संस्कृतशिक्षिका भवति। तयोः अपत्यद्वयं विद्येते - नामतः अथर्वः, आत्रेयी च। 


Latest newsLatest news