राष्ट्रमण्डलक्रीडायां भारताय प्रथमं सुवर्णम्।
भारोद्वहने मीरा बाय् चानू वर्यायै 'हाट्रिक्' सुवर्णम्। 
मीराबाय् चानू।
ग्लास्गो> राष्ट्रमण्डलक्रीडायां [Common Wealth Games] भारोद्वहनस्य ४८ किलो विभागे भारतगणस्य मीरा बाय् चानू सुवर्णं प्राप्तवती। आहत्य [snach - 85 kg + clean & jerk] १९० किलो भारम् उद्वाह्य विश्वकीर्तिमवाप च। अनुस्यूततया तृतीयसुवर्णपदकमेव अनया प्राप्तम्। २०१८, २०२२ क्रीडायामपि सा अस्मिन् विभागे सुवर्णं प्राप्तवती आसीत्।
पुरुषाणां ६० किलो विभागे भारतस्य ऋषिकान्त सिहः रजतपदकं प्राप्तवान्। आहत्य २६४ किलो भारं सः उद्वहत्।
मीरा बाय् चानूं ऋषिकान्तं च स्वकीयोपलब्ध्यै प्रधानमन्त्री, राष्ट्रपतिः, उपराष्ट्रपतिः च अभ्यनन्दयन्। क्रीडायाः 'अत्लटिक्स्' स्पर्धाः सोमवासरे आरभ्यन्ते।