OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 30, 2026

 सामन्तराष्ट्रमण्डलक्रीडा।

भारतस्य चरित्रोपलब्धिः - १०,००० मी धावने गुल्वीर सिंहस्य रजतम्। 

गुल्वीर सिंहः। 

ग्लास्गौ> सामन्तराष्ट्रमण्डलक्रीडायां [CW Games] कायिकक्रीडासु भारतक्रीडकस्य चरित्रोपलब्धिः। दशसहस्रमीटर् धावनस्पर्धायां  गुल्वीर सिंहः रजतपदकं सम्प्राप्यमाणः प्रथमः  भारतीयः इति विश्वकीर्तिम् अवाप। आस्ट्रेलियायाः केय्रो बिन्सणः सुवर्णं,ऐसिल् ओफ् मान् इति राष्ट्रस्य डेविड् मुल्लार्के नामकः कांस्यपदकं च प्राप्तवान्। 

  महिलानां भारोद्वहने ६९ किलो विभागे भारतीया हर्जीन्दर् कौर् रजतपदकं प्राप्तवती। इदानीं भारतं सुवर्णद्वयं, सप्त रजतानि, त्रीणि कांस्यानि चोपलभ्य नवमस्थाने वर्तते।