भारतेन सह स्पर्धितुं ब्रसीलः।
ओक्टोबर् तृतीयदिनाङ्के कोल्कोत्तायाम्।
नवदिल्ली> ब्रसीलस्य पादकन्दुकदलः भारतदलेन सह सौहृदस्पर्धायै भारतमागच्छति। ओक्टोबर् तृतीयदिनाङ्के कोल्कोत्तायां साल्ट् लेक् क्रीडाङ्कणे भवेत् क्रीडा।
पञ्चवारं विश्वविजयीभूतः ब्रसीलः प्रथमतया एव भारते क्रीडति। भारतेन प्रतिद्वन्द्वमानः प्रबलतमः प्रतियोगी भवति ब्रसीलः। फिफायाः श्रेणीकरणमनुसत्य ब्रसीलः पञ्चमस्थाने भारतं १३८ तमस्थाने चास्ति। ब्रसीलस्य लक्षशः आराधकैः विद्यमाने भारते क्रीडितुं सन्दर्भः सविशेषरूपेण कल्प्यते इति ब्रसील् पादकन्दुकसमित्या निगदितम्।