OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 29, 2026

 जापाने भूकम्पः; सुनामी सूचना।

भूकम्पे विशीर्णा व्यापारशाला।

टोक्यो> जापानराष्ट्रस्य दक्षिणद्वीपे क्युषू नामके तीव्रः भूकम्पः अजायत। मापिन्यां ७.१ अङ्किते भूकम्पे एकः मृतः। पञ्चाशदधिके जनाः आहताः। 

  मङ्गलवासरे अपराह्णे आसीत् भूकम्पः। समुद्रतटप्रदेशेषु सुनामीपूर्वसूचना उद्घोषिता। सार्धैकलक्षं जनाः सुरक्षितस्थानं नीताः। 

  प्रदेशे द्वित्राणि दिनानि यावत् पुनरपि भूचलनस्य साध्यता अस्ति। 'बुल्लट्' रेल्, प्रादेशिक रेल् यानसेवाः अल्पकालिकतया स्थगिताः। 'असो कुमामोतो' विमाननिलयश्च पिहितः।