आरक्षकातिक्रमः नाङ्गीकरणीयः - सर्वोच्चन्यायालयः।
नवदिल्ली> प्रक्षोभस्य नाम्नि आरक्षकसेनायाः अतिक्रमः, दण्डप्रयोगादिकं नीतियुक्तं न भवतीति सर्वोच्चन्यायालयेन सूचितम्। शान्तियुक्तः प्रतिषेधः सर्वेषामधिकारः अस्ति। लोकतन्त्रप्रक्रियासु स्वयमेव निष्ठा पालनीया इति च मुख्यन्यायाधिपः सूर्यकान्तवर्यः अवदत्। 'नीट्' प्रश्नपत्रचोरणं विरुध्य आराष्ट्रम् आयोजितमान्दोलनं विरुध्य आरक्षकसेनया कृतान् अतिक्रमान् विरुध्य समर्पिताः अभियाचिकाः मङ्गलवासरे अभिश्रोतुं निश्चित्य आसीत् मुख्यन्यायाधिपस्य प्रस्तावः।
प्रत्युत, प्रतिषेधकैः आक्रमणाधीनानाम् आरक्षकपरिवाराणां याचिकाः अपि श्रोक्ष्यन्ते इति तेन स्पष्टीकृतम्। व्यक्तिभ्यः प्राणाः एव महान्तः इति सः अवोचत्।