OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 29, 2026

 राष्ट्रमण्डलक्रीडाः।

प्रथमस्थाने आस्ट्रेलिया। भारतम् अष्टमस्थाने।

ग्लास्गौ> सामन्तराष्ट्रमण्डलक्रीडासु [Common Wealth Games] पञ्च दिनेषु अतीतेषु आस्ट्रेलियाराष्ट्रं प्रथमस्थानमवहति। २८ सुवर्णानि, १३ रजतानि, २० कांस्यपदकानि च अभिव्याप्य  आहत्य ६१ पदकानि आस्ट्रेलियया सम्प्राप्तानि। द्वितीयस्थाने इङ्गलाण्टः अस्ति। १० सुवर्णानि, १७ रजतानि, १२ कांस्यानीति क्रमेण ३९ पदकानि। आहत्य २७ पदकैः कानडा तृतीये स्थाने वर्तते।

  भारतस्य स्थानम् अष्टमम् अस्ति। सुवर्णद्वयं, पञ्च रजतानि,त्रीणि कांस्यानि च भारतेन प्राप्तानि।