OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 30, 2026

 'वन्दे मातरा'वहेलनं दण्ड्यापराधः

विधेयकं राज्यसभया अनुमोदितम्। 

नवदिल्ली>  'जनगणमन' इति राष्ट्रियगानस्य इव तत्तुल्यं पदं राष्ट्रियगीताय वन्दे मातरगानाय अपि प्रदास्यमानं "राष्ट्रियबहुमति अनादरपरिष्करण विधेयकं" राज्यसभया अनुमोदितम्। आम् आद्मी पार्टी इति दलं विना सर्वेषां विपक्षीयदलानां बहिर्गमनस्य अनन्तरं शब्दाभिमतेन आसीत् विधेयकस्य विजयः। वन्दे मातरगानस्य अपमानने वत्सरत्रयस्य कारागारवासः वा शुल्कदण्डः द्वयमपि वा विधीयमानरीत्या अस्ति विधेयकस्य परिष्करणम्।