टि-२० क्रिकट्
सिम्बाब्वे विरुध्य भारतस्य सम्पूर्णविजयः।
वैभव सूर्यवंशी परम्परायाः श्रेष्ठक्रीडकः। 
तृतीयस्पर्धायां सूर्यवंशिनः कन्दुकताडनम्।
हरारे> परम्पराद्वयस्य नष्टपरिहाररूपेण तिस्रः अपि स्पर्धाः विजित्य सिम्बाब्वेदलं विरुध्य टि-२० क्रिकट्परम्परायां भारतस्य सम्पूर्णविजयः। तृतीयस्पर्धायां ३५ धावनाङ्कानामेव भारतदलस्य आधिकारिकविजयः। अनेन स्पर्धात्रयमपि विजित्य भारतं परम्परां स्वायत्तीचकार।
प्रथमं कन्दुकताडनं कृतवान् भारतदलः ४९ कन्दुकैः ८१ धावनाङ्कान् प्राप्तवतः प्रारम्भकक्रीडकस्य वैभव सूर्यवंशिनेः वैभवे २० क्षेपणचक्रेषु ५ ताडकानां विनष्टे १९२ धावनाङ्कान् सम्पादयामास। प्रतिताडने सिम्बाब्वेदलेन सप्त ताडकानां विनष्टे केवलं १५७ धावनाङ्कान् सम्पादयामास। सूर्यवंशी एव क्रीडायाः परम्परायाश्च श्रेष्ठक्रीडकः।