OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 27, 2026

 प्रवेशपरीक्षासंविधानं समग्रेण पुनःसंघटिष्यते - प्रधानमन्त्री।

नन्दन् निलेकनी नेतृत्वमावक्ष्यति। 


नवदिल्ली> गतदिने प्रधानमन्त्रिणा नरेन्द्रमोदिना दृश्यचलनसन्देशेन प्रस्तुतं यत् राष्ट्रस्य सर्वाः स्पर्धापरीक्षाव्यवस्थाः समग्रतया पुनःसंघटिष्यन्ते। 'सर्वाः प्रवेशनपरीक्षाः पूर्णतया विश्वासोपेताः, साङ्केतिकविद्याधिष्ठिताः, सुतार्याः च कर्तुं निर्णयः कृतः। तदर्थं साङ्केतिकविद्याविशारदः आधारसंविधानस्य मुख्यशिल्पी नन्दन् निलेकनी इत्यस्य नेतृत्वे कर्मसमितिः रूपीकृता' - मोदिवर्यः इन्स्टग्राममाध्यमेन प्रोक्तवान्। 

  इस्रो संस्थायाः पूर्वीयाध्यक्षः एस् सोमनाथः। ऐ बी संस्थायाः पूर्वाध्यक्षः तपन देखा, ऐ ऐ टि चेन्नई  इत्यस्य निदेशकः वी रामकोटिः, पूर्वीया शिक्षासचिवा अनिता कर्वालः, 'लजिस्टिक्' कुशलः अमृत लाल मीणा इत्येते परिष्करणसमित्यां सदस्याः भवन्ति।