टि-२० परम्परा भारतेन प्राप्ता।
द्वितीयस्पर्धायां ९० धावनाङ्कानां विजयः। 
इषान किषन् कन्दुकताडनमध्ये।
हरारे> नायकः श्रेयस् अय्यरः संघश्च आश्वस्तः। अयर्लाान्टे इङ्गलण्टे च परम्परानष्टेन अपहास्यस्य भारतसंघस्य सिम्बाब्वे राष्ट्रे टि-२० क्रिकट् प्रतिद्वन्द्वे विजयमधुरः परम्पराप्राप्तिश्च। शनिवासरे सम्पन्ने द्वितीये प्रतिद्वन्द्वे सिम्बाब्वेदलं ९० धावनाङ्कैः पराजित्य स्पर्धात्रयात्मिका परम्परा [२-०] भारतेन स्वायत्तीकृता।
प्रथमं कन्दुकताडनं कृतवान् भारतसंघः २० क्षेपणचक्रेषु ५ ताडकानां विनष्टे २१९ धावनाङ्कान् सम्पादयामास। प्रत्युत्तरताडने सिम्बाब्वेदलः १२९ धावनाङ्कैः सर्वे बहिर्नीताः। भारताय ईशान कृष्णः (८१), तिलक वर्मा (६०*) च अर्धशतकं प्राप्तवन्तौ। ईशान कृष्णः श्रेष्ठक्रीडकः अभवत्।