केरले आगामिषु चतुर्दिनेषु तीव्रवृष्टिः।
अद्य त्रिषु जनपदेषु ओरञ्जजागरूकता; वयनाटे अध्ययनविरामः।
प्रतीकात्मकचित्रम्।
अनन्तपुरी> गतेषु कतिपयदिनेषु केरले लभ्यमाना वृष्टिः आगामिषु चतुर्षु दिनेषु आकेरलं व्याप्य तीव्रा भविष्यतीति केन्द्रपर्यावरणविभागेन निगदितम्। अद्य कोष़िक्कोट्, कण्णूर्, वयनाट् जनपदेषु ओरञ्जजागरूकता उद्घोषिता। वयनाट् जनपदस्थानां सर्वेषां विद्यालयानां अध्ययनविरामः जनपदाधिकारिणा प्रख्यापितः। आगामिदिनेषु वर्षाः केरले सर्वत्र तीव्रतया व्यप्स्यन्ते।
बुधवासरे तिरुवनन्तपुरं, कोल्लम्, आलप्पुष़ा जनपदान् विहाय ८ जनपदेषु पीतजागरूकता उद्घोषिता। अनन्तरदिनेषु प्रायेण सर्वेषु जनपदेषु अतितीव्रा वृष्टिः भविष्यतीति प्रवचनमस्ति। पर्वतप्रान्तप्रदेशान् अधिवसन्तः भूस्खलनादिषु दुष्प्रभावेषु जागरणीयाः भवेयुः। सुरक्षितस्थानानि प्राप्तुं सज्जाः भवेयुः इति ऋतुविज्ञानीयविभागेन निगदितम्। समुद्रे मत्स्यबन्धनाय चतुर्णां दिनानां निरोधः अपि विहितः।