OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, June 12, 2025

 अहम्मदाबादे विमानुर्घटना - १३३ जनाः मृत्युमुपगताः।

विमानदुर्घटनायाः विदूरदृश्यम्। 

भूतपूर्वः गुजरातमुख्यमन्त्री तीव्रेण आहतः। 

उड्डीय पञ्च निमेषाभ्यन्तरे ६२५ पादमितात् उच्चतः छात्रावासभवनस्योपरि पतितम्। 

आहत्य २४२ जनाः - २३० यात्रिकाः, १२ सेवाजनाः। 

अहम्मदाबादः> गुजराते अहमदाबादस्थे  विमाननिलयात् उड्डीयमानं एयर् इन्डिया संस्थायाः बोयिंङ् ७८७ विमानं पञ्च मिनिट् समयानन्तरं महच्छब्देन अग्निकाण्डेन च सह  समीपस्थस्य छात्रावासस्य उपरि पतत् आसीत्। इतःपर्यन्तं १३३ यात्रिकाः मृताः इति सूच्यते। 

आहत्य २४२ जनाः   विमाने आसन्। २३०  यात्रिकाः १२ सेवकाश्च। १६९ भारतीयाः, ५३ ब्रिटीनीयाः, ७ पोर्गीसनागरिकाः, एकः कनेडियः च आसन्। 

  विमाने यात्रिकः गुजरातस्य भूतपूर्वः मुख्यमन्त्री विजय रूपाणी कठिनतया आहतः इति सूच्यते।

 विश्वचषकपादकन्दुकक्रीडा

ब्रसीलम् अभिव्याप्य त्रयोदश राष्ट्राणि योग्यतां प्राप्तानि। 

सर्वेषु विश्वचषकेषु योग्यतामुपस्थापितवत् एकमेव दलमिति ख्यातिः ब्रसीलाय। 

सावो पोलो > कार्लोस् आन्जलोटी नामकस्य परिशीलकस्य तन्त्रनैपुण्यात् ब्रसीलराष्ट्रस्य पादकन्दुकदलं आगामिवर्षे सम्पत्स्यमानायां  विश्वचषकपादकन्दुकक्रीडायां योग्यतां सम्पादयामास।। पराग्वे दलं पराजित्य एव ब्रसीलस्य योग्यतालब्धिः। अनेन सर्वास्वपि विश्वचषकस्पर्धासु क्षमतां प्राप्तवत् एकमेव दलमिति ख्यातिरपि ब्रसीलेन  अवस्थापिता। 

   इतःपर्यन्तं त्रयोदश दलानि विश्वचषकाय क्षमतां प्राप्तानि। अमेरिका, कानडा, मेक्सिको इत्येतानि आतिथेयराष्ट्राणि विना आस्ट्रेलिया, इरानं, जापानं, जोर्दानः, दक्षिणकोरिया, उस्बकिस्थानं, अर्जन्टीना, एक्वडोर्, न्यूसिलान्ट्, ब्रसीलः इत्येतानि दश राष्ट्राणि च क्षमतामुपालभन्त। २०२६ विश्वचषकपादकन्दुकक्रीडायाम् आहत्य अष्टचत्वारिंशत् राष्ट्राणि भागं करिष्यन्ति।

 प्रज्वलिता पण्यमहानौका नियन्त्रणाधीना। 

अग्निप्रशमनं विजयं प्राप्नोति। महानौकां सुदूरमपनेतुम् आरब्धः। 

लोहरज्जुना बन्धिता पण्यमहानौका। 

कोष़िक्कोट्> दिनत्रयात्पूर्वं केरलतीरसमीपम् अन्ताराष्टियमहानौकामार्गे अग्निकाण्डाधीना 'एम् वि वान्हाय् ५०३' नामिका पण्यमहानौका तटसंरक्षणसेनायाः नियन्त्रणे अभवत्। महानौकायाः पुरतःपार्श्वे उदग्रयानात् अतिसाहसिकतया अवतीर्य शक्तियुक्तं लोहरज्जुमुपयुज्य बद्ध्वा तीरात् सुदूरमपनेतुम् उद्यमः तटसंरक्षणसेनया आरब्धः। तदर्थं महानौकां तटसंरक्षणसेनायाः 'समुद्रप्रहरी'ति महानौकया सह बबन्ध। रक्षादौत्याय मुम्बयीतः जलयानद्वयं च समागतम्। 

    तिसृणां महानौकानां नैकानां डोणियर् विमानानां च साह्येन अदृष्टेभ्यः चतुर्भ्यः वृत्तिकरेभ्यः मार्गणमनुवर्तते। अदृष्टाः चत्वारः महानौकायामेव लग्नाः इति सन्देहः वर्तते।

 अद्य आरभ्य केरले तीव्रा वृष्टिः। 

अनन्तपुरी> कतिपयदिनानां विरामानन्तरं केरले वर्षाः तीव्राः भविष्यन्ति। गुरुवासरे चतुर्षु जनपदेषु ओरञ्च् जागरूकता घोषिता। इतरेषु पीतजागरूकता च घोषिता। 

  अस्मिन् मासे पञ्चदशतमदिनाङ्कपर्यन्तं होरायां पञ्चाशत् तः षष्टि पर्यन्तं कि मी शीघ्रतायां वातप्रवाहस्य च सम्भावना अस्ति। रविवासरपर्यन्तं केरल-कर्णाटक-लक्षद्वीपतीरेषु मत्स्यबन्धनं न कार्यमिति पर्यावरणविभागेन निगदितम्।

Wednesday, June 11, 2025

 फ्रञ्च् ओपण् - पुरुष टेन्नीस् 

कार्लोस् अल्करास् विजेता। 

चषकेन सह कार्लोस् अल्करासः। 

पारीस्>  पारीसे रोलाङ् गारेस् लानक्षेत्रे सम्पन्ने अत्युत्कृष्टे अन्तिमप्रतिद्वन्द्वे पुरुषाणां लानक्रीडायां [टेन्निस्] स्पेयिन् देशीयः कार्लोस् अल्करास् (२२ वयस्कः) विजेता अभवत्। २९ निमेषाधिक पञ्च होराः दीर्घिते प्रतिद्वन्द्वे  विश्वस्मिन् प्रथमश्रेण्युपस्थितम् इटलीयं यानिक् स्किन्नर् इत्यमुं  पराजित्य एव किरीटं धृतवान्। चतुर्थं 'ग्रान्ड् स्लाम्' किरीटमेव अल्करासेन प्राप्तम्।

 पण्यमहानौकायां विस्फोटः

समुद्रे पतितानि वस्तुधारकाणि तमिलनाट् - श्रीलङ्कयोः तीरं प्राप्तुं सम्भावना।

केरलतीरे आशङ्कायाः अवकाशः नास्तीति केन्द्रप्रशासनम्। 

अनन्तपुरी> आरबसमुद्रे सोमवासरे स्फोटनेन  प्रज्वलितायाः पण्यमहानौकायाः अग्निं प्रशमयितुम् एतावत्पर्यन्तं न शक्तम्। परन्तु अग्निना धूमेन च पूर्णायाः महानौकायाः समीपतः तटरक्षासेनायाः 'समुद्रप्रहरी', 'सचेतः' इति महानौकाद्वयस्य साह्येन अग्निशमनप्रवर्तनानि अनुवर्तन्ते। 

  एतदाभ्यन्तरे समुद्रे पतितानि वस्तुधारकाणि तमिलनाट् - श्रीलङ्कयोः तीरे अवक्षिप्तुं सम्भाव्यता विद्यते इति केन्द्रप्रशासनस्य अधिकारिभिरुक्तम्। केरलतीरे आशङ्कायाः अवकाशः नास्तीति तेषां मतम्। किन्तु महानौकायाः मारकविषांशाः समुद्रे लीनाः इत्यतः तादृशाघातस्य सम्भाव्यता न विगण्यते।

Tuesday, June 10, 2025

 आरबसमुद्रे पुनरपि महानौकादुर्घटना। 

केरले कण्णूर् समीपे पण्यमहानौका स्फोटनेन प्रज्वालिता। 


+ वस्तुधारकेषु अग्निप्रकाण्डः। + २२ वृत्तिकरेषु १८ जनाः रक्षिताः, ४ अदृष्टाः। 

कण्णूर्> अत्युग्रबोम्बस्फोटनशक्तियुक्तैः वस्तुभिः सह श्रीलङ्कायां कोलम्बो महानौकाश्रयात् मुम्बय्यां नव षेवा महानौकाश्रयं गम्यमाना 'एम् वि वान् हाय् ५०३' नामिका पण्यमहानौका आरबसमुद्रे अग्निप्रकाण्डाधीना अभवत्। कण्णूर् जनपदस्थात् अष़ीक्कल् मत्स्यबन्धननौकाश्रयात् ८१. ४९ कि मी दूरे सोमवासरे प्रभाते सार्धनववादने आसीदियं दुर्घटनायाः प्रारम्भः। 

  महानौकाधिष्ठितानि वस्तुधारकाणि प्रायेण सर्वाणि विस्फोट्य महदग्निप्रकाण्डः जातः। भारतस्य नौसेनया वायुसेनया च अग्निनिर्व्यापनप्रवर्तनानि कृतान्यपि फलप्राप्तिः नाभवत्। महानौका प्रायशः अग्निग्रस्ता जाता। 

  पण्यमहानौकायां वर्तितेषु २२ वृत्तिकरेषु  १८ जनाः तटरक्षासेनया परिरक्षिताः। ते मंगलापुरस्थे आतुरालये परिचर्यायां वर्तन्ते। द्वयोरवस्था कठिनतरा इति सूच्यते। समुद्रमुत्पतिताः चत्वारः वृत्तिकराः अदृष्टाः वर्तन्ते। 

 शुभांशोः अन्तरीक्षयात्रा श्वस्तनं परिवर्तिता। 


नवदिल्ली> भारतीयं शुभांशु शुक्लमभिव्याप्य चत्वारोपेतसंघस्य अन्तरीक्षयात्रा बुधवासरं परिवर्तिता। अद्य यात्राभविष्यतीति उद्घोषितमासीत्। किन्तु हीनपर्यावरणेन एकदिवसीयस्य विलम्बः भविष्यतीति इस्रो संस्थया निगदितम्। 

  आक्सियं ४ दौत्यस्य पेटकचालको भवति शुभांशुः। तं विना हंगरीयः टिगोर् कापुः, पोलण्टदेशीयः स्लावोस् उसन्की विनीस्की, कमान्डर् पदीयः पेग्गी विट्सण् इत्येते भवन्ति इतरे संघाङ्गाः।

Monday, June 9, 2025

 कोको गाफ् 'फ्रञ्च् ओपण्' विजेत्री। 

पुरस्कारेण सह कोको गाफ्।

पारीस्> 'फ्रञ्च् ओपण् टेन्निस्' क्रीडायां नूतनी  वीरा। गतदिने सम्पन्ने अन्तिमप्रतिद्वन्द्वे अमेरिकादेशस्य द्वितीय'सीड्' क्रीडिका कोको गाफ् बेलारसस्य प्रथम'सीड्' क्रीडिका आर्याना सबलेङ्का इत्येतां पराजित्य किरीटं धृतवती। 

  क्रीडायाः प्रथमचरणं आर्यानया क्लेशेन प्राप्तमपि अनन्तरचरणद्वयमपि कोको गाफेन विजितम्। त्रयाणामपि चरणानां परिणामः एवं - (६ - ७), (६-२), (६-४)।

 शुभांशु शुक्लः श्वः बहिराकाशं प्रति। 

शुभांशु शुक्लः, ड्रागण् पेटकं, तदूढ्यमानं फाल्कण् - ९ इति क्षेपणी च। 

फ्लोरिडा> चतुर्दशदिनात्मकस्य 'आक्सियोम् - ४' इति  बहिराकाशदौत्याय ड्रागण् नामकं यात्रायानं फ्लोरिडायां  केन्नडि बहिराकाशकेन्द्रे सिद्धमस्ति। भारतीयं शुभांशु शुक्लमभिव्याप्य चत्वारः यात्रिकाः परिशालनानि समाप्य दौत्याय सिद्धाः वर्तन्ते। कुजवासरे भारतसमयमनसृत्य सायं ५. ५२ वादने विक्षेपणं भविष्यति।