OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, July 28, 2025

 गासायै सहाय्यार्थं गता  महानौका इस्रयेलेन अवरुद्धा। 

टेल् अवीवः> गासायाः उपरि इस्रयेलेन विधत्तम् उपरोधमुल्लङ्घयितुमुद्दिश्य गासां प्रस्थिता 'हन्डाला'भिधेया महानौका इस्रयेलेन अवरुद्धा। 'फ्रीडं फ्लोटिला' इति साहाय्यसंघटनस्य महानौका आसीदियम्।

  महानौकायां वर्तमानाः सन्नद्धप्रवर्तकाः वार्ताहराश्च २१ संख्याकाः निगृहीताः कारागृहबद्धाश्च। महानौकास्थानि भोज्यवस्तूनि औषधानि च निगृहीतानि।

 भारतेङ्गलण्टयोः चतुर्थः निकषः समस्थितिं प्राप्तः।

त्रयः भारतीयक्रीडकाः 'शतकाभिषिक्ताः'।

माञ्चेस्टर्> भारत-इङ्गलण्टयोर्मध्ये माञ्चेस्टरे सम्पन्ना चतुर्था क्रिकट् निकषस्पर्धा समस्थितौ परिसमाप्ता। चतुर्थनिकषस्य पञ्चमे दिने भारतस्य द्वितीयताडनप्रकरणे ४२५/४ इति स्थिते समस्थितिः घोषिता। प्राप्ताङ्कसूचिका एवं - भारतं - ३५८, ४२५/४। इङ्गलण्टः - ६६९। 

  भारताय शुभमान गिलः चतर्थे निकषे अपि शतकं प्राप्तवान् [१०३]। तमतिरिच्य वाषिङ्टण सुन्दरः १०१ धावनाङ्कैः, रवीन्द्र जडेजः १०७ धावनाङ्कैश्च अबाह्यौ स्थितौ। निकषस्पर्धायाः चतुर्थे चरणे त्रयः भारतीयताडकाः शतकं प्राप्नुवन्ति इति प्रप्रथमं भवति। 

  अनेन इङ्गलण्टः २ - १ इति क्रमेण अग्रे अस्ति। पञ्चमः अन्तिमश्च निकषः ४३१ तमदिनाङ्कतः ओवल् क्रीडाङ्कणे सम्पत्स्यते।

 महिला चतुरङ्गः 

द्वितीयाक्रीडा अपि समस्थितौ। 

अद्य समस्थितिभञ्जकक्रीडा।

दिव्या हम्पी च।

बातुमी> महिलानां विश्वचषकचतुरङ्गक्रीडायाः अन्तिमस्पर्धायाः द्वितीयक्रीडा अपि समस्थितौ परिसमाप्ता। कोनेरु हम्पी, दिव्या देशमुखः इति द्वयोः भारतीयमहिलयोः स्पर्धा रविवासरे ३४ तमे शारचालने   समस्थितिं प्राप्ता। 

  सोमवासरे, अद्य सोपानत्रयोपेता  समस्थितिभञ्जकक्रीडा सम्पद्यते। कस्मिन्नपि चरणे का विजयते सा विश्वविजेत्री भविष्यति।

Sunday, July 27, 2025

 महिला विश्वचतुरङ्गचषकः। 

प्रथमचरणं समस्थितौ। 

कोनेरु हम्पी दिव्या देशमुखश्च अन्तिमस्पर्धायाम्। 

बातुमी> जोर्जियाराष्ट्रे बातुमी नगरे प्रचाल्यमानायाः  महिला विश्वचतुरङ्गचषकस्पर्धायाः अन्तिमचरणस्य प्रथमे दिने भारतीयमहिलयोः कोनेरु हम्पी - दिव्या देशमुखयोः स्पर्धा समस्थितिं प्राप्ता। अत्यन्तं प्रतिनिविष्ठतया क्रीडितयोः तयोः ४१ तमे शारचालने ते समस्थितिं स्वीकृतवत्यौ। द्वितीयक्रीडा अद्य सायं सम्पत्स्यते। अद्यतनविजेत्री चषकं प्रापयिष्यति। पुनः समस्थितिः चेत् सोमवासरे सम्पद्यमानेन समस्थितिभञ्जकेन [Tie breaker] विजेत्री निश्चेष्यते।

 मालद्वीपनेतृभिः सह मोदी मिलितवान्। 

माले> दिनद्वयसन्दर्शनार्थं मालद्वीपं प्राप्तवान् भारतप्रधानमन्त्री नरेन्द्रमोदी तत्रत्यैः राष्ट्रनेतृभिः सह मिलित्वा चर्चां कृतवान्। उभयोरपि राष्ट्रयोः सौहृदप्रबलीकरणमालक्ष्य आसन् चर्चाः। 

  शनिवासरे मालद्वीपसंसदः अध्यक्षः अब्दुल् रहीम अब्दुल्ला, भूतपूर्वराष्ट्रपतिः मुहम्मज नषीदः इत्येतयोः साकं संसदीयसौहृदसख्यमधिकृत्य चर्चां कृतवान्। शुक्रवासरे राष्ट्रपतिः मुहम्मद मुयिसु इत्यनेन सह कृतायाः चर्चायाः अनन्तरं द्वीपस्य आधारसुविधाप्रवर्धनाय ४८५० कोटि रूप्यकाणि ऋणरूपेण वाग्दत्तानि।

 अतिवृष्टिदुष्प्रभावः 

केरले सर्वत्र महानाशः, जलोपप्लव‌ः,  क्लेशः।

चत्वारः मृताः। 


कोच्ची>  दिनं यावत् अनुस्यूततया वर्षितस्य अतिवर्षस्य दुष्प्रभावेण आकेरलं महानाशः अभवत्।  उपशतं गृहाणि विशीर्णानि। सहस्रशः वासगृहाणि जलाप्लावितानि भवन्ति। जनाः बन्धुगृहाणि दुरिताश्वासशिबिराणि च अभयं प्राप्तवन्तः।   मुख्यवीथयः तत्र जलनिमग्नाः जाताः। 

  प्रायेण सर्वेषु जनपदेषु निम्नप्रदेशाः जलनिमग्नाः जाताः। व्रीहि-कदल्यादयः  कृषयः सर्वे विनष्टाः। सर्वासु नदिषु जलोपप्लवः अजायत। जनजीवनं क्लेशमयमभवत्। विविधजनपदेषु दुरापन्नासु दुर्घटनासु चत्वारः जनाः मृताः। अद्यापि सर्वेषु जनपदेषु जाग्रत्तानिर्देशः कृतः।

Saturday, July 26, 2025

 अद्य कार्गिल् विजयदिवसः। 


नवदिल्ली> १९९९ तमे वर्षे कार्गिल् सीमामुल्लङ्घ्य अतिक्रान्तान् पाकिस्थानसैनिकान् अपसार्य विजयीभूतायाः भारतसेनायाः विजयस्य शनिवासरे २६ वयः प्राप्नोति। युद्धे ५२७ भटाः वीरमृत्युं प्रापुः। 'ओपरेषन् विजयः' इत्यासीत् तदानींतनदौत्यस्य नामधेयः। 

   विजयदिनाचरणं पुरस्कृत्य  द्रासक्षेत्रे भारतसेनया अनुस्मरणकार्यक्रमाः आरब्धाः। कार्गिल् युद्धस्मारके रक्षासहमन्त्रिणः नेतृत्वे पुष्पचक्राणि समर्पितानि। कार्गिल् बलिदानिनां कृते नागरिकाणां ओण् लैन् द्वारा श्रद्धाञ्जलिं समर्पयितुं 'ई-श्रद्धाञ्जली' इति अन्तर्जालीयप्रवेशकः [Portal] शनिवासरे सैन्येन आरभ्यते।

 ताय्लान्ट्-कम्बोडिया सीमायां संघर्षः।

११ ताय्लान्टीयाः व्यापादिताः।  

संघर्षप्रदेशे ताय् सैन्यस्य कवचितवाहनानि। 

बाङ्कोक्> प्रातिवेशिकराष्ट्रयोः ताय्लान्ट -कम्बोडिययोः मध्ये सैनिकसंघर्षः। सीमाप्रदेशः युद्धसमानावस्थां प्राप्तः। 

  उभयोरपि राष्ट्रयोर्मध्ये वर्षशतकैः वर्तमानः सीमाधिष्ठितकलहः गतदिनेषु मूर्धन्यावस्थां प्राप्तः आसीत्। तस्य अंशतया ताय् ग्रामेषु कम्बोडियया कृते व्योमाक्रमणे ११ जनाः हताः। तेषु अधिके सामान्यजनाः इति सूच्यते। 

  षट्सु सीमाप्रदेषु परस्पराक्रमणम् अनुवर्तते इति ताय्लान्टस्य राष्ट्रसुरक्षामन्त्रालयाधिकारिणा उक्तम्। गुरुवासरे कम्बोडियया व्योमाक्रमणे आरब्धे ताय् ग्रामवासिनः गृहेभ्यः  पलायितुमारभन्त।

 मालद्वीपाय ४८५० कोटि रूप्यकाणाम् ऋणसुविधा भारतेन उद्घोषिता। 

माले> भारतस्य प्रातिवेशिकराष्ट्राय मालद्वीपाय ४८५० कोटि रूप्यकाणाम् 'एल् ओ सि' [Line Of Credit] नामकम् ऋणं वाग्दत्तम्। शुक्रवासरे भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः सन्दर्शनवेलायामासीदियं घोषणा।

  पूर्वनिश्चितं धनराशिं आवश्यानुसारम् ऋणरूपेण स्वीकर्तुं प्रत्यर्पितुं च शक्यमाना ऋणरीतिर्भवति एल् ओ सी।

 पालस्तीनं राष्ट्ररूपेण अङ्गीकरोतीति फ्रान्सः। 

पारीस्> पालस्तीनं परमाधिकारराष्ट्ररूपेण अङ्गीकर्तुं प्रक्रियाः आरब्धाः इति फ्रान्सराष्ट्रेण घोषितम्। सेप्टम्बरमासे सम्पद्यमाने संयुक्तराष्ट्रसम्मेलने पालस्तीनस्य राष्ट्रपदम् आधिकारिकतया अङ्गीकरिष्यतीति फ्रान्सस्य राष्ट्रपतिः इम्मानुवल् मक्रोणेन निगदितम्। 

  किन्तु फ्रान्सस्य क्रियाविधिः इस्रयेलेन अमेरिकया च निशितेन विमृष्टः। "इस्रयेलस्य उन्मूलनाय आधारशिलान्यास एव अनेन साध्यः " इति इस्रयेलस्य प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना उक्तम्। संयुक्तराष्ट्रसभायां १९३ अङ्गराष्ट्रेषु १४२ राष्ट्राणि पालस्तीनस्य राष्ट्रपदम् अङ्गीकुर्वन्ति।