सम्प्रति वार्ताः-
राज्यस्तरीय- शिक्षक- प्रशिक्षणशिबिरं
केरळे श्वः सम्पूर्णम् भविष्यति।
केरळे श्वः सम्पूर्णम् भविष्यति।
संस्कृतप्रशिक्षणशिबिरम् अधिकृत्य संस्कृतभारत्याः महामन्त्री प. नन्दकुमारः।
गासियाबाद् - तीव्रवादान् विरुध्य तीव्रवादि नेतु: दावूद् इब्राहिमस्य कार् यानम् अग्निसात्करोत्।
हिन्दुमहासभायाः प्रवर्तकाः गासियाबादस्य इन्दिरा पुरा देशे जनानां पुरतः कारयानम् अग्निसात् कृत्वा तेषां प्रतिषेधः ज्ञापितवन्तः। दावूदस्य डि नाम संस्थायाः भीषणिमगणयन् एव प्रतिषेधः कृतवन्तः। | ब्रूणे - अस्य राष्ट्रस्य नेता सुल्त्तान् हसनल् बोलक्कय्या एव क्रिस्तुमस् आघोषाय निरोधानां कृतवान् जानुवरी मासस्य 16 दिने दक्षिणपूर्व एष्यायां बार्णियो द्वीपे विद्यमानं राष्ट्रमेतत्। |
-
|
गतवर्षेषु अपि एतादृश निरोधः आसीत्। 4,20,000 जनाः अत्र वसन्ति्। तस्मिन् प्रतिशतं द्वात्रिंशत् जनाः विविधधर्मावलम्बिनः सन्ति । |
कोल्क्कत्त- कोल्क्कात्तायां राज्यान्तरीयव्योमयान निलये बस् यानं विमानेन सह घट्टितम्। जेट्ट् एयर् वेय्सस्य भवति बस् यानम्। एयर् इन्त्यायाः स्थगिते विमाने आसीत् घट्टनम्। तस्मिन् समये विमाने यात्रिकाः नासीत्। विमान गृहे सुरक्षायाः अभावः अस्ति इति अनया दुर्घटनया सूच्यते। ![]() |
| उद्घाटनं - पेरुवा गीतामन्दिर् मठाधिपतिः वेदानन्द सरस्वती |
![]() |
| संस्कृतं किमर्थम् इति विषये प. नन्दकुमारः |
श्रीसिट्टि- केन्द्रमन्त्रिणा वेङ्कय्य नायिटु महाभागेन केरलमन्त्रिणे आर्याटन् मुहम्मदाय श्री सिट्टि मध्ये यानपेटिकां दास्यते। तिस्रः पट्टिका पेटिकाः प्रथमतया दास्यते। तत् उपयुज्य फ़िब्रवरि मासे परीक्षण धावनं करिष्यते। श्री सिट्टिमध्ये विद्यमानाया: अल्स्तों संस्थायाः कर्मशालायां निर्माणं प्रचलन्नस्ति। कोच्ची -दिनद्वयात्मकं केरलसन्दर्शनार्थं भारतस्य प्रधानमन्त्री नरेन्द्र मोदी अद्य कोच्चीं प्राप्नोति। प्रधानमन्त्रिपदप्राप्त्यनन्तरं मोदिनः प्रथमं सन्दर्शनमिदम्।
सोमवासरे सायं ४.१० वादने कोच्ची नाविकविमाननिलयं प्रापस्यमानाय मोदीवर्याय केरलसर्वकारः स्वीकरणं प्रदास्यति। ततः तृश्शिवपेरूर् नगरे भा ज पा दलेन आयोज्यमाने सम्मेलने प्रभाषणं करिष्यति। पुनः कोच्चीं प्रतिनिवृत्य नगरस्थे ताज्मलबार् भवनसमुच्चये वासः।
अपरेद्युः प्रभाते ऐ एन् एस् विक्रमादित्य इति विमानवाहिनिमहानौकायां त्रयाणां सेनाविभागानां सम्मेलने भागभागित्वं कृत्वा कोल्लं नगरे भूतपूर्वस्य मुख्यमन्त्रिणः आर् शङ्कर् महोदयस्य प्रतिमायाः अनाच्छादनं करिष्यति। ततः श्रीनारायणगुरोः समाधिस्थानभूतं शिवगिरिं संद्रष्टुं वर्कलां गमिष्यति। तदनन्तरम् अनन्तपुरस्थात् व्योमनिलयात् दिल्लीं प्रतिगमिष्यति।