OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 24, 2025

 १२ राज्य-केन्द्रशासनप्रदेशानां SIR मतदायकावलिः प्रकाशीकृता। 

नवदिल्ली> केन्द्रनिर्वाचनायोगस्य नेतृत्वे १२ राज्य-केन्द्रशासनप्रदेशेषु  आरब्धा तीव्रमतदायकावलिपरिष्करणप्रक्रिया समाप्ता। केरलं, पश्चिमवंगः, राजस्थानं, गोवा, तमिलनाट्, गुजरात्, मध्यप्रदेशः, छत्तीसगढ्, बिहारम् इत्येतेषु राज्येषु पोण्टिच्चेरी, लक्षद्वीपः, अन्तमानः इत्येतेषु केन्द्रशासनप्रदेशेषु च मासैकस्मात् पूर्वमारब्धायाः SIR प्रक्रियायाः अनन्तरं आवलिः प्रकाशीकृता। 

  प्रतिराज्यं लक्षशः जनाः आवलीतः बहिर्गतवन्तः। मृताः, अनधिगताः, वासपरिवर्तनं कृतवन्तः, एकस्मिन्नेव समये आवलीद्वये अन्तर्भूताः इत्यादीनि एव बहिर्गमनस्य कारणानि। 

 ये मतदानावलीतः निष्कासिताः  तेषां नामानि पुनः युक्तप्रमाणानाम् आधारे अन्तर्भावयितुं जनवरी २२ तम दिनाङ्कपर्यन्तं व्यवस्था  अस्ति।