OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 24, 2025

 भारत-श्रीलङ्का महिला टि २०

द्वितीये प्रतिद्वन्द्वे भारतस्य उज्वलविजयः। 

षफाली वर्मा 

विशाखपत्तनं> श्रीलङ्कां विरुध्य भारतस्य महिलानां टि २० क्रिकट्स्पर्धापरम्परायाः द्वितीये प्रतिद्वन्द्वे सप्त द्वारकेषु अवशिष्टेषु भारतस्य उज्वलविजयः। स्फोटकात्मकं कन्दुकताडनं प्रकटितवत्याः षेफाली वर्मणः पाटवस्य आधारे अस्ति अयं विजयः। ३४ कन्दुकैः ६९ धावनाङ्कान् सम्प्राप्य अजय्यतां परिपालिवती प्रारम्भक्रीडिका षेफाली भवति श्रेष्ठक्रीडिका। 

  प्रथमं कन्दुकताडनं कृतवता श्रीलङ्कादलेन २० क्षेपणचक्रेषु नव द्वारकाणां विनष्टे १२८ धावनाङ्काः सम्पादिताः। अनुक्रीडां कृतवता भारतदलेन ११.५ क्षेपणचक्रेषु केवलं  द्वारकत्रयस्य  विनष्टेन १२९ धावनाङ्कान् सम्पाद्य लक्ष्यं प्राप्तम्। अनेन पञ्चस्पर्धात्मिकायां परम्परायां भारतं २ - ० इति क्रमेण अग्रे तिष्ठति। अवशिष्टाः तिस्रः स्पर्धाः अनन्तपुर्यां सम्पत्स्यन्ते।