अमेरिकाराष्ट्रस्य ४७ तमं राष्ट्रपतिपदं डोनाल्ड् ट्रम्पः प्राप्तवान्।
डेमोक्रेटिक्-पक्षीयप्रतिनिधिं कमला-हैरिसं पराजित्य डोनाल्ड् ट्रम्पः २७७ 'इलेक्टोरल्-वोट्' प्राप्त्वा अमेरिकायाः ४७ तमः राष्ट्रपतिः अभवत्। कमला हैरिसः २२६ इलेक्टोरल्-वोट् प्राप्तवती। सेनेट्-सभायां रिपब्लिक्-पक्षाय बहुमतं प्राप्तम्। जेडी वांस् उपराष्ट्रपतिः भविष्यति।
७८ वर्षीयः डोनाल्ड् ट्रम्पः पुनरपि राष्ट्रपतिस्थानं प्राप्य विशेषम् इतिहासं निर्मितवान्। अमेरिकायाः इतिहासे पराजयानन्तरं पुनः निर्वाचितः द्वितीयः राष्ट्रपतिः एव अभवत् एषः। इतः पूर्वं ग्रोवर् क्लिवलान्डः अपि एवं निर्वाचितः आसीत्।






