OUR YouTube Channel 1. SampratiVartah |
marquee
Saturday, July 6, 2024
ब्रिटने 'लेबर् पार्टी' प्रशासनपदे।
केयर् स्टामरः प्रधानमन्त्री।
![]() |
| नियुक्तप्रधानमन्त्री केयर् स्टामरः। |
लण्टनं> ब्रिटने १४ संवत्सराणि यावत् अधिकारपदं वहन्तं 'कण्सर्वेटीव् पार्टी' इति राजनैतिकदलं पराभूय लेबर् पार्टी दलः अधिकारपदं प्राप। पार्टिनेता मानवाधिकारप्रवर्तकः नीतिज्ञश्च केयर् स्टामरः प्रधानमन्त्री भविष्यति। आहत्य ६५० स्थानेषु ६४९ स्थानानां फलप्रख्यापनं कृते सति ४१२ स्थानानि 'लेबर् पार्टी'दलेन उपलब्धानि। कण्सर्वेटीव् पार्टीदलेन १२१ स्थानानि प्राप्तानि।
वर्तमानीनप्रधानमन्त्री कण्सर्वेटीव्दलनेता भारतवंशजः ऋषि सुनकः त्यागपत्रं समर्पितवान्। नित्योपयोगवस्तूनां मूल्यवर्धनं, देशान्तराधिवासः, 'ब्रक्सिट्' इत्यस्य विफलता इत्यादीनि ऋषि सुनकप्रशासनस्य कण्सर्वेटीव् दलस्य च पराभवे कारणानि अभवन्।
Friday, July 5, 2024
उपराष्ट्रपतिः श्वः केरलं प्राप्नोति।
नवदिल्ली> उपराष्ट्रपतिः जगदीप धन्करः दिनद्वयात्मकस्य सन्दर्शनाय शनिवासरे केरलं प्राप्नोति। ऐ ऐ एस् टि संस्थायाः [Indian Institute of Space science & Technology] १२ तमे दीक्षान्तसमारोहे मुख्यातिथिरूपेण भागं स्वीकर्तुमेव तस्य आगमनस्य प्रधानोद्देश्यः।
श्वः प्रभाते १०. ५५ वादने उपराष्ट्रपतिः अनन्तपुरं विमाननिलयं प्राप्स्यति। राज्यसर्वकारेण प्रदास्यमानं स्वीकरणं स्वीकृत्य ऐ ऐ एस् टि संस्थां गमिष्यति। रविवासरे सः दिल्लीं प्रत्यागमिष्यति।
कालट्यां शाङ्करज्योतेः लोकार्पणं शनिवासरे भविष्यति।
कालटी> आदिशङ्कर-भगवद्पादानां जन्मभूमौ शाङ्करज्योतेः लोकार्पणं शनिवासरे भविष्यति। श्रृङ्गेरि शङ्करमठस्य अनुबन्धमठः भवति योगानन्देश्वर-सरस्वतीमठः। अस्य मठस्य अधिपतिना श्री शङ्करभारती महास्वामिना श्रीशङ्कराय स्वीकृता शङ्करज्योतिः इति नामाङ्गितं पुरातनगृहं लोकाय समर्पयिष्यते।
श्रीशङकरभगवत्पादैः विरचितानां ग्रन्थानां सन्देशः तथा तेषां वैभवं च जनानां मनसि निवेशयितुम् इदं पुरातनगृहं वेदिकारूपेण वर्तिष्यते।
लोकार्पणस्य अनुबन्धतया एकदिनात्मकः आध्यात्मकशिबिरः आयोक्ष्यते। 'मनसः स्वरूपं व्यापारञ्च' इति विषये आयेक्ष्यमाणः शिबिरः प्रवर्तननिरतान् वैज्ञानिकान् उद्दिश्य भवति। राष्ट्रस्य विविधभागेभ्यः वैज्ञानिकाः गवेषकाः समाजस्य विविधभागेभ्यः प्रमुखाः मनीषिणः च शिबिरेऽस्मिन् भागं स्वीकरिष्यन्ति। जूलै मासस्य षष्टदिनाङ्के भवति कार्यक्रमः।
विश्वविजयिनः स्वदेशं प्रत्यागतवन्तः।
राष्ट्रस्य महदुज्वलस्वीकरणम्।
![]() |
| भारतसंघाय मुम्बय्यां प्रदत्तं स्वीकरणम्। |
नवदिल्ली> टि - २० क्रिकेट् विश्वकिरीटधारी भारतसंघः ह्यः प्रभाते राष्ट्रराजधानिं प्राप। १३ संवत्सरेभ्यः परं विश्वचषकेन सह इन्दिरागान्धी अन्ताराष्ट्रविमाननिलये पादस्पर्शं कृतवान् भारतनायकः रोहित शर्मा संघेन सह सहस्राणाम् आराधकानां स्नेहोज्वलं स्वीकरणं स्वीकृतवान्। तदनन्तरं ते प्रधानमन्त्रिणः प्रेमानुमोदनानि स्वीकर्तुं लोककल्याणमार्गस्थं प्रधानमन्त्रिणः वासमन्दिरं प्राप्तवन्तः। दलाङ्गैः साकं परिशीलकः राहुल द्राविडः, बी सि सि ऐ अध्यक्षः रोजर् बिन्निः, कार्यदर्शी जय् षा इत्येते चासन्।
मुम्बई> मुम्बय्यां आरबसमुद्रस्य तीरस्थे मरैन् ड्रैव् मार्गस्य पार्श्वयोः तथा वाङ्घटे क्रीडाङ्कणे च अन्यः नीलवर्णाङ्कितः महाजनसमुद्रः उत्साहारववीचिभिस्सह प्रतीक्षन्ते स्म। न केवलं मार्गे समीपस्थेषु व्यापारमन्दिरेषु वासमन्दिराणां वरान्तासु वृक्षशिखरेषु च प्रियताराणाम् एकमात्रदर्शनाय जनाः वयःभेदं विना सज्जाः तिष्ठन्ति स्म।
सायंसन्धायाः पूर्णतायां सविशेषरीत्या सज्जीकृतस्य बस् यानस्य अन्तः सर्वेभ्यः दर्शनसौविध्यं प्रदत्तवन्तः भारतसंघाङ्गाः क्रीडाङ्कणं प्रविश्य प्रदक्षिणं कृतवन्तः। जनाः आनन्दारवान् उद्घोषितवन्तः।
Thursday, July 4, 2024
वृष्टेः सुखदायकशैत्यवेलायां गुरुवायुपुरे गजानां सुखचिकित्सा समारब्धा।
हस्त्यायुर्वेदविधिप्रकारेण निर्मितं औषधमिश्रितभोज्यमेव सुखचिकित्साकाले गजानां विशेषखाद्यम्। विधिवत् भक्ष्यक्रमः, व्यायामः, विशेषस्नानं च मासैकं यावत् अनुवर्तते। गुरुवायुपुरेशस्य बालकृष्णस्य १५ प्रियगजाः गजदुर्गस्य उत्तरभागस्थे अङ्कणे सुखचिकित्सार्थं श्रेणीभूय स्थिताः। सन्तुलिताहाराः संमिश्र्य निर्मितानि भोज्यगोलकानि प्रत्येकं गजाय प्रददात्। दृश्यमिदं साक्षात्कर्तुं बहवः गजप्रेमिणः च सन्निहिताः आसन् ।
उत्तरप्रदेशे धर्मीयसत्संगे बहुजनसम्मर्देन १२३ जनाः मृताः।
दुर्घटना हात्रस जनपदे भोले बाबा इत्यस्य 'व्यक्तिदेवस्य' आत्मीयप्रभाषणमध्ये।
हात्रस्> उत्तरप्रदेशस्थे हात्रस् जनपदे कुजवासरे आयोजिते कस्मिंश्चित् धर्मीयसत्संगे दुरापन्नेन बहुजनसम्मर्देन १२३ जनाः मृत्युमुपगताः। अनेके आहताः। फुलरि ग्रामे भोले बाबा इत्यनेन स्वप्रख्यापित'व्यक्तिदेवेन' आयोजिते आत्मीयप्रभाषणमध्ये आसीदियं दुर्घटना।
प्रभाषणस्य अन्ते बाबां द्रष्टुं तस्य पादमूलस्थमृत्स्वीकरणाय च जनाः साहसपूर्वं धावित्वा तत्समीपमागच्छन् इति श्रूयते। तत्फलेन सम्मर्देनैव जनाः दुरन्तमापतिताः।
दुर्घटनानन्तरं भोले बाबा निलीनः वर्तते। मुख्यमन्त्री योगी आदित्यनाथः दुरन्तस्थानं सन्दर्श्य न्यायविचारान्वेषणं प्रख्यापितम्।
न्याय. मुहम्मद मुषताखः केरलस्य प्रवर्तमानः मुख्यन्यायाधिपः।
कोच्ची> केरलस्य उच्चन्यायालयस्य प्रवर्तमानः मुख्यन्यायाधिपरूपेण [Acting Chief Justice] न्यायमूर्तिः मुहम्मद मुष्ताखः नियुक्तः। इदानींतन मुख्यन्यायाधिपः न्यायमूर्तिः ए जे देशायिवर्यः अचिरेण विरम्यते। तत्थाने एवास्य नियुक्तिः।
केरले कण्णूर पुरीयः अयं २०१४ तमे वर्षे उच्चन्यायालये उपन्यायमूर्तिरूपेण नियुक्तः। ततः २०१६ तमे स्थिरनियुक्तिरभवत्।
Wednesday, July 3, 2024
भारत-दक्षिणाफ्रिक्का वनिता क्रिकेट निकषस्पर्धायां भारतस्य विजयः।
![]() |
| निकषस्पर्धायां विजयीभूतं भारतस्य महिलादलम्। |
चेन्नै> चैन्नैयां सम्पन्ने महिलानां क्रिकटनिकषस्पर्धायां दक्षिणाफ्रिक्कां विरुध्य भारतस्य दशद्वारकविजयः। निकषस्पर्धायाः चरणद्वयेSपि दश ताडकान् बहिर्नीतवती स्नेहा राणा श्रेष्ठक्रीडकारूपेण चिता।
प्रथमे चरणे कन्दुकताडनं चितेन भारतदलेन ६०३/६ इति क्रमे विरामघोषणं [Declare] कृतम्। ततः २६६ धावनाङ्कानां सम्पादनेनैव दक्षिणाफ्रिक्कायाः दश क्रीडकाः निष्कासिताः। ततः अनुक्रमक्रीडां [Follow on] कृत्वा ३७३ धावनाङ्कान् समपादयत्। तदा जातं ३७ धावनाङ्काः इति भारतस्य विजयलक्ष्यं ताडकनष्टं विना प्राप च।
इस्रायेलेन कारागृहीताः ५४ पालस्तीनीयाः विमोचिताः।
खान् यूनिस्> इस्रायेलसैन्येन सप्त मासेभ्यः पूर्वं निगृह्य कारागृहे निक्षिप्ताः ५४ पालस्तीननागरिकाः विमोचिताः। गासास्थस्य महतः आतुरालयस्य अल् शिफा नामकस्य निदेशकः मुहम्मद अबु सेल्मियः अपि विमोचितेषु अन्तर्भवति। युद्धबन्धितैः कारागृहाणि पूरितानि इत्यत एव एतेषां मोचनस्य हेतुरिति श्रूयते।
Tuesday, July 2, 2024
जलपाते अवतीर्णेषु दशसु पञ्च गिरिजलप्रपाते निमज्य मृत्युंगताः। 
लोणावालदुरन्ते निपतिताः।
पूणे> महाराष्ट्रे पूणेसमीपस्थे लोणावाला जलप्रपातुं द्रष्टुमागतेषु विनोदयात्रिकेषु पञ्च जनाः गिरिजलप्रपाते निमज्य मृत्युमुपगताः।
१८ अङ्गयुक्तेषु यात्रिकेषु एकपरिवारीयाः दश जनाः जलप्रपाते अवतरितवन्तः। तस्मिन् समये जलप्रवाहः मन्दमासीत्। किन्तु झटित्येव तत्र वृष्टिकारणेन महान् गिरिजलप्रवाहः सञ्जातः। दश जनाः एकीभूय एकत्र स्थितवन्तः अपि जवे जलप्रवाहे निपतिताः। त्रयः तीर्त्वा रक्षां प्रापुः। द्वौ तीरस्थैः रक्षितौ।
हडपसर सय्यद् नगरवासी सहिस्त लियाखत् अन्सारी [३६] , तस्य चत्वारि अपत्यानि च मृत्युवशं प्रापुः।
महाचक्रवातः - भारतक्रिकट्दलस्य प्रतिनिवर्तनं स्थगितम्।
बार्बडोसः> बार्बडोसद्वीपराष्ट्रे महाचक्रवातस्य दुष्प्रभावात् विमानपत्तनानि पिहितानि इत्यतः भारतस्य टि - २० क्रिकट् क्रीडकानां प्रतिनिवर्तनं स्थगितम्। गते दिनद्वये अत्लान्टिकसमुद्रे झंझावातस्य दुष्प्रभावः दृश्यते स्म। २०० कि मी परिमिते शीघ्रे वातः वाति इत्यतः क्रीडकाः परिवारैः सह वासस्थानेष्वेव अनुवर्तन्ते।
Monday, July 1, 2024
केरलस्य कलालयेषु नूतनपाठ्यपरियोजनायाः अद्य शुभारम्भः।
तिरुवनन्तपुरम्> उन्नतशैक्षिकसम्प्रदाये चतुर्वर्षीयबिरुदमिति पाठ्यक्रमपरियोजना केरलस्य कलालयेषु अद्य शुभारम्भं कुरुते। भारतस्य राष्ट्रियशैक्षिकनीतिक्रमे आदिष्टः अन्ताराष्ट्रियपरिष्कारो भवति चतुर्वर्षीयबिरुदम्।
केरलस्य सर्वेषां विश्वविद्यालयानाम् अधीने वर्तमानेषु समेष्वपि सर्वकारीय-सर्वकारसाहाय्यापेक्षित कलालयेषु विज्ञानोत्सवेन सह नूतनपदक्षेपस्य अरम्भः भविष्यति। अस्य राज्यस्तरीयोद्घाटनं अनन्तपुरीस्थे सर्वकारीय महिलाकलालये मुख्यमन्त्री पिणरायि विजयः करिष्यति।
सुनिता विल्यंसस्य प्रतिनिवर्तनाय विलम्बः भविष्यति।
वाषिङ्टण्> अन्ताराष्ट्र बहिराकाशनिलये [I S S] सप्ताहद्वयं उषित्वा प्रतिनिवर्तयितुं गतवन्तौ भारतीयवंशजा सुनिता विल्यंसः सहयात्रिकः बुच् विल्मोरः इत्येतयोः प्रतिनिवर्तनाय विलम्बः भविष्यतीति नासया निगदितम्। यथातथः दिनाङ्कः न निगदितः अपि मासत्रयस्य विलम्बः गण्यते।
यात्रिकयोः यात्रापेटकस्य हानिपरिहाराय समयः आवश्यकः इत्यत एव कालविलम्बः।
त्रयः क्रिडकाः टि - २० क्रीडायाः निवर्तन्ते; परिशीलकोSपि विरमति।
नवदिल्ली> टि - २० क्रिकट्क्रीडायाः विश्वचषककिरीटं भारताय लब्धुं निर्णायकं भागधेयम् ऊढवन्तः त्रयः श्रेष्ठक्रीडकाः साभिमानं निवर्तन्ते। दशककालं यावत् भारतदलस्य नायकस्थानमलङ्कृतवान् विराट कोलिः, वर्तमाननायकः रोहित शर्मा, सकलवल्लभः रवीन्द्र जडेजः इत्येते इतःपरं टि - २० क्रीडायां न भविष्यन्ति। परिशीलकः राहुल द्राविडः अपि भारतदलस्य क्रिकेट परिशीलकस्थानादपि विरमति।
Sunday, June 30, 2024
लडाके सैनिकवाहनं नदीप्रवाहे मग्नम्।
पञ्च सैनिकानां वीरमृत्युः।
ले> काश्मीरे लडाकप्रदेशस्य पूर्वस्यां दिशि चीनस्य नियन्त्रणरेखासमीपे श्योकनद्यां सञ्जाते आकस्मिके शीघ्रजलप्रवाहे ५ सैनिकाः वीरमृत्युं प्रापुः। सैनिकेषु 'टाङ्क्'नामकं यानेन नद्याः तीरान्तरं प्राप्तुं प्रयत्नं कृतवत्सु अप्रतीक्षिते जलप्रवाहे निपतिताः।
सिन्धुनद्याः पोषकनदी भवति श्योका। हिमानां द्रवणेन अप्रतीक्षितजलप्रवाहस्य सम्भावना विद्यते। जलवितानस्य औन्नत्यात् रक्षाप्रवर्तनं विफलमभवत्।
दौलत् बेग् ओल्डि सैनिकपत्तनस्य ५२ आर्मेड् विभागे प्रवर्तमानाः सैनिकाः एव दुर्घटनायां निपतिताः। मृत्युमुपगतेषु एकः जे सि ओ पदस्थः इतरे चत्वारः भटाः च आसन् ।
वीरभारतम् ; सूर्यभारतम्।
टि - २० विश्वकिरीटं भारताय। दक्षिणाफ्रिकां ७ धावनाङ्कैः पराजयत।
![]() |
| लब्धकिरीटः भारतदलः विजयाह्लादे। |
# भारतस्य द्वितीया टि - २० किरीटोपलब्धिः # विराटकोलिः [७६/५९] श्रेष्ठक्रीडकः।
बार्बडोसः> अन्तिमक्षेपणचक्रे सूर्यकुमारयादवस्य अविस्मरणीयम् अत्युज्वलं च कन्दुकनिग्रहणम्! स्रंसितमिति सन्दिग्धं किरीटमासीत् दक्षिणाफ्रिकायाः कन्दुकताडकं डेविड् मिल्लर् इत्यस्य बहिर्नयनेन सूर्यकुमारेण प्रत्याहृतम्। उत्साहः अन्तिमकन्दुकं यावत् दीर्घितायाम् अन्तिमस्पर्धायां दक्षिणाफ्रिकां ७ धावनाङ्कैः पराजित्य भारतस्य टि -२० किरीटोपलब्धिः।
स्पर्धायाः प्रथमपादे भारतेन २० क्षेपणचक्रैः १७६ धावनाङ्काः सम्प्राप्ताः। विराट कोलिः ५९ कन्दुकैः ७६ धावनाङ्कान् सम्पादितवान्। प्रत्युत्तररूपेण २० क्षेपणचक्रैः दक्षिणाफ्रिकया ८ क्रीडकानां विनष्टे केवलं १६९ धावनाङ्काः सम्पादिताः।
विराटकोलिः अस्याः क्रीडायाः श्रेष्ठक्रीडकरूपेण चितः। जस्प्रीत बुम्रः क्रीडाश्रृङ्खलायाः श्रेष्ठक्रीडकरूपेणापि चितः।
Saturday, June 29, 2024
दिल्ली विमानपत्तनस्य आवरणवितानं भञ्जितं ; एकः मृतः, ६ आहताः।
नवदिल्ली> गतदिने सञ्जाते तीव्रवर्षे दिल्ल्याम् इन्दिरागान्धी अन्ताराष्ट्रियविमानपत्तनस्य प्रथममन्दिरस्य आवरणवितानं प्रभञ्ज्य कार् यानचालकः मृतः। अन्ये षट् जनाः कठिनतया व्रणिताः।
ह्यः उषसि सार्धपञ्चवादने आसीदियं दुर्घटना। यत्र यात्रिकाः प्रस्थानार्थम् अवतरन्ति तस्य टेर्मिनल् मन्दिरस्य आवरणवितानं प्रभञ्ज्य कार् यानानामुपरि अपतत्। नैकानि कार् यानान्यपि भञ्जितानि।
राष्ट्रराजधानी तीव्रवर्षायां निमग्ना।
नवदिल्ली> तीव्रवर्षेण भारतराजधानी ह्यः जले निमग्ना। १९३६ तमसंवत्सरात् परं कठिना वर्षा आसीत् गतदिने जातमिति सर्वकारेण निगदितम्। २४ होरासु २२८ मिल्लीमीटर् परिमिता वर्षा अवर्षत्।
मुख्यवीथ्यः जले निमग्नाः इत्यतः गमनागमनसुविधा स्थगिता। दुर्घटनानिवारणार्थं विद्युदपि विच्छेदिता। जनजीवितं दुस्सहं जातम्।
विदेशकेदाराणां रक्षादौत्याय केरलस्य 'ड्रोण्'यन्त्राणि। 
फिया क्यू डि १० ड्रोण् यन्त्रेण सह देवन् चन्द्रशेखरः,देविका, प्रौद्योगिकाधिकारी अतुलः च।
कोच्चि> विदेशराज्याणां गोधूम-बार्ली-कनोला केदारेषु ऊर्वरकप्रयोगः औषधप्रोक्षणम् इत्यादिषु कर्मसु केरले जातानि ड्रोण् यन्त्राणि सज्जानि सन्ति। आलप्पुष़ा जनपदे चेर्तला पट्टणक्काट् पुरवासिनौ देवन् चन्द्रशेखरः, तस्य सोदरी देविका, इत्यनयोः नेतृत्वे आरब्धः कार्षिकसंरम्भः 'फ्यूसलेज् इनवेषन्स्' [Fuselage Innovations] इत्यनेन निर्मितानि ड्रोण् यन्त्राणि विदेशराष्ट्रेषु कार्षिकसाह्यं यच्छन्ति। यू के, कानडा राष्ट्राभ्यां २५ संख्यकानां यन्त्राणाम् आदेशपत्रं लब्धम्।जूलाय् मासान्ते यन्त्राणि विदेशं नेष्यन्ति।
'फिया क्यू डि १०' इति कृतनामधेयानि एतानि यन्त्राणि १६० संख्याकानि अस्मिन् वर्षे केरलम्, आन्ध्रप्रदेशः, कर्णाटकं, राजस्थानं, तमिलनाटु राज्येषु विक्रीतानि सन्ति। १० लिटर् परिमितशेषीयुक्तानि एतानि २५ मिनिट् कालं यावत् डयित्वा सम्यक् रीत्या ऊर्वरकौषधानि प्रोक्षिष्यन्ति। एकस्य यन्त्रस्य मूल्यं ५ लक्षतः ९ लक्षपर्यन्तमस्ति।
कोच्चि नगरस्थे कलमशेरि 'मेकर् विल्लेज्' मध्ये आरब्धाय अस्मै संरंभाय केन्द्रव्योमयानमन्त्रालयस्य अङ्गीकारः २०२३ तमे वर्षे लब्धः।
Friday, June 28, 2024
टि - २० भारत-दक्षिणाफ्रिका अन्तिमस्पर्धा। 
इङ्लण्टं पराजितवतः भारतदलस्य आह्लादः।
गयाना> टि-२० विश्वचषकक्रिकट् स्पर्धाश्रृङ्खलायाः पूर्वान्यचक्रे दक्षिणाफ्रिका भारतं च विजयपीठं प्रापतुः। शनिवासरे रात्रौ बार्बडोसनगरे अन्तिमस्पर्धा भविष्यति।
गतदिने ट्रिनिडाड् नगरे सम्पन्ने पूर्वान्त्यचक्रस्य प्रथमस्पर्धायां दक्षिणाफ्रिका अफ्गानिस्थानं नव कन्दुकताडकानां बलेन पराजयत। अङ्कोपलब्धिः - अफ्गानिस्थानं ११. ५ क्षेपणचक्रे ५६ धावनाङ्कैः सर्वे बहिर्नीताः। दक्षिणाफ्रिका - ८. ५ क्षेपणचक्रे एकेन ताडकविनष्टेन ६० धावनाङ्काः।
रात्रौ गयानानगरे सम्पन्नायां द्वितीयस्पर्धायां वर्तमानवीरः इङ्लण्टदलः भारतेन ६८ धावनाङ्कैः पराजितः। वर्षापातेन मध्ये मध्ये स्थगिते प्रथमचरणे निश्चिते २० क्षेपणचक्रे भारतं सप्त क्रीडकानां विनष्टेन १७१ धावनाङ्कान् उपालभत। प्रत्युत्तररूपेण इङ्लण्टदलः १०३ धावनाङ्कान् समाहृत्य बहिर्गतः। रोहितशर्मा [५७/३९], सूर्यकमारयादवः [४७/३६] च भारतस्य विजयशिल्पिनौ।
मद्यनयप्रकरणं - केज्रिवालः सि बी ऐ संस्थया निगृहीतः।
नवदिल्ली> मद्यनयप्रकरणे ई डीम् अनुगम्य सि बी ऐ संस्था अपि दिल्ल्याः मुख्यमन्त्रिणम् अरविन्द केजरिवालं न्यग्रहीत्। दिनत्रयं यावत् केजरिवालं सि बी ऐ संघस्य अधीने संस्थाप्य न्यायालयेन आदिष्टं च।
ई डि प्रकरणे न्यायव्यवहारानुसारं तिहार् कारागृहे वर्तमानं केजरिवालं तत्र गत्वा परिपृच्छनानन्तरं बुधवासरे न्यायालयमानीय एव निग्रहणप्रक्रियामकरोत्।
Thursday, June 27, 2024
ओम् बिर्लः लोकसभाध्यक्षः।
नवदिल्ली> प्रशासनपक्षतः भा ज पा सदस्यः ओम् बिर्लः लोकसभानाथरूपेण चितः। गतलोकसभायाः अध्यक्षः अपि स एवासीत्।
विपक्षतः कोण्ग्रसदलस्य सदस्यः कोटिक्कुन्निल् सुरेशः अपि स्थानाशी आसीत्। किन्तु विपक्षेन मतदानप्रक्रिया नोन्नीता। अतः ओम् बिर्लवर्याय प्रधानमन्त्रिणा समर्पितः प्रस्तावः शब्दमतेन अङ्गीकृतः।
टि - २० : पूर्वान्त्यचक्रम् अद्य।
किङ्स्टण्> टि - २० क्रिकट् विश्वचषकस्पर्धायाः पूर्वान्त्यचक्रे अद्य द्वौ प्रतिद्वन्द्वौ सम्पत्स्येते। प्रथम चरणे दक्षिणाफ्रिक्का अफ्गानिस्थानेन सह स्पर्धते। ट्रिनिडाड् नगरे प्रातः ६ वादने भवति स्पर्धा।
द्वितीयचरणे भारतम् इङ्लण्टेन सह रात्रौ ८ वादने गयाना नगरे प्रतिस्पर्धिष्यते। अन्तिमस्पर्धा शनिवासरे रात्रौ ८ वादने बार्बडोस् नगरे भविष्यति।
Wednesday, June 26, 2024
केरले वर्षाकालः प्रबलः।
व्यापकनाशः, उपदशजनाः मृताः।
कोच्चि> केरलराज्ये दक्षिणपश्चमीयः मण्सूण् वर्षाकालः प्रबलः जातः। आकेरलं लक्षद्वीपसमूहे च शक्ता वर्षा अनुवर्तते।
केरले भूरिशः जनपदेषु वर्षाकालदुष्प्रभावः जनजीवने दुरितं वपति। वृक्षप्रपातेन मृत्पातेन च नैकानां जनानां जीवहानिरजायत। एरणाकुलं जनपदे नेर्यमङगलं स्थाने वृक्षः चलतः कार् यानस्योपरि पतित्वा एकः मृतः। अन्ये त्रयः यात्रिकाः आहताः। इटुक्कि जनपदे गृहस्योपरि मत्पतित्वा गृहनाथा दिवंगता। कण्णूर्जनपदे अपि समानरीत्या चत्वारः जनाः मृत्युमुपगताः।
तिरुवनंतपुरम्, आलप्पुष़ा, कोल्लं कण्णूर् इत्यादिषु जनपदेषु प्रचण्डवातेन वृक्षाः मूलोत्पाटिताः सन्तः गृहाणां वाहनानां चोपरि पतित्वा बहुनाशः अभवत्।
लोकसभाध्यक्षनिर्वाचनम् अद्य; राहुलगान्धी विपक्षनेता।
![]() |
| विपक्षनेता राहुलगान्धिः। |
नवदिल्ली> २८ तमायाः संसदः अध्यक्षः अद्य निर्वक्ष्यते। अद्य प्रभाते ११वादने अस्ति निर्वाचनम्। शासनपक्षतः भाजपासदस्यः ओम् बिर्ला विपक्षतः कोण्ग्रसदलीयः कोटिक्कुन्निल् सुरेशः च स्थानाशिनौ भवतः। अध्यक्ष-उपाध्यक्षस्थानयोः शासन-विपक्षपक्षयोर्मध्ये उभयसम्मतिः न जाता इत्यतः एव स्पर्धा जायते।
लोकसभायाः विपक्षनेतृरूपेण कोण्ग्रसः नेता राहुलगान्धिः ऐककण्ठ्येन चितः। 'इन्डिया'सख्यस्य उपवेशनानन्तरं कोण्ग्रसदलस्य राष्ट्रियसचिवप्रमुखः के सि वेणुगोपालः वृत्तान्तममुं निगदितवान्।
लोकसभासदस्यानां शपथग्रहणं सम्पूर्णम्।
संस्कृते शपथं कृतवन्तः बहवः सदस्याः।
नवदिल्ली> १८ तमलोलसभायाः सर्वे सदस्याः गतदिनद्वयेन शपथग्रहणनकुर्वन्। प्रथमं सभायाः तात्कालिकाध्यक्षरूपेण चितः भर्तृहरि मेताबः राष्ट्रपतिभवने द्रौपदी मुर्मू वर्यायाः समक्षे शपथग्रहणमकरोत्। ततः तस्य अध्यक्षतायां सभाकार्यक्रमाः समारब्धाः।
तत्र प्रधानमन्त्री नरेन्द्रमोदी प्रथमं शपथवाचनं कृतवान्। अनन्तरं तात्कालिकाध्यक्षाय साह्यं क्रियमाणाः सदस्याः, काबिनट्पदीयाः मन्त्रिणः, सहमन्त्रिणः तदनन्तरं अक्षरमालाक्रममनुसृत्य विविधराज्यस्थानां सदस्याः इत्येवं क्रमेण सत्यशपथं कृतवन्तः।
हिन्दीं आङ्गलं च विना सदस्याः स्वस्वमातृभाषासु च शपथग्रहणं स्वीकृतवन्तः।
बहवः सदस्याःसंस्कृतभाषायामपि शपथग्रहणं कृत्वा राष्ट्रस्य संस्कृतिं उन्नीतवन्तः। मध्यप्रदेशतः ५,दिल्ली,असमः, गुजरात्, छतीसगढ्, गोवा, कर्णाटकम्, आन्ध्रप्रदेशः इत्यादिभ्यः राज्येभ्यः चिताः सदस्याः संस्कृते शपथग्रहणं कृतवन्तः।
Tuesday, June 25, 2024
पुनरुपयोगक्षमं विक्षेपयानं - अनुस्यूतविजयत्रयेण ऐ एस् आर् ओ। 
चित्रदुर्गा आकाश यान परीक्षणकेन्द्रे RLV पुष्पकं अवतरति।
बङ्गलुरु> ऐ एस् आर् ओ संस्थायाः पुनरुपयोगक्षमस्य विक्षेपणयानस्य [Re usable Launch Vehicle - RLV] तृतीयमन्तिमं च स्वयंनियन्त्रितोत्तरणपरीक्षणं विजयकरमभवत्। रविवासरे चित्रदुर्गा चल्लक्करस्थे आकाशयानपरीक्षणकेन्द्रे आसीदिदं परीक्षणम्।
अत्यन्तं दुष्करावस्था आसीदपि वाहनं उत्तमरीत्या उत्तरणमकरोदिति ऐ एस् आर् ओ संस्थया निगदितम्।
पुष्पकमिति कृतनामधेयं RLV वाहनमेव परीक्षणे प्रवृत्तम्। विक्षेपणवाहनं बहिराकाशात् प्रतिनिवृत्ते सति जायमानाः अतिवेगोत्तरणदशाः पुनःसृष्ट्वा आसीत् परीक्षणम्। पुनरुपयोगक्षमं विक्षेपणवाहनं २०३० तमे वर्षे साक्षात्कर्तुं शक्यते इति प्रतीक्षते।
रष्यायाम् आक्रमणपरम्परा - २० मरणानि।
मोस्को> रूस् राष्ट्रस्य उत्तरकोकसस् क्षेत्रे डेगस्थानं प्रदेशे आराधनालयान् आरक्षककेन्द्रं च विरुध्य रविवासरे विधत्तायाम् आक्रमणपरम्परायां २० जनाः हताः। एषु १५ आरक्षकाः भवन्ति। एकः ओर्तडोक्स् विभागस्य पुरोहितः च।
डेगस्थानस्य मखच्कल इत्यस्मिन् महानगरे डर्बन्ट् नामके तीरदेशनगरे च आसन् आक्रमणानि प्रवृत्तानि। द्वौ क्रिस्तीयाराधनालयौ, द्वे सिनगोगमन्दिरे , एकं आरक्षणपरिशोधनकेन्द्रं च आक्रमितानि। ऐ एस् इति भीकरसंघटनेनैव आक्रमणं कारितमिति सूच्यते।








