OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, December 19, 2025

 छत्तीसगढे त्रयः मावोवादिनः व्यापादिताः।

सुक्मा> छत्तीसगढे सुक्माजनपदे मावोवादि-सुरक्षासेनयोर्मध्ये जाते प्रतिद्वन्द्वे त्रयः मावोवादिनः मारिताः। एषु एका महिला आसीत्। गोलपल्लिनामकस्थलस्य समीपे वनप्रदेशे आसीत् संघट्टनम्। 

 न्याया. सौमन सेनः केरलस्य उच्चन्यायालयाधिपः। 

नवदिल्ली> केरलस्य उच्चन्यायालयस्य आगामि मुख्यन्यायाधिपरूपेण सर्वोच्चन्यायालयसमित्या  न्याया. सौमन सेनः निर्दिष्टः। इदानीं मेघालयस्य मुख्यन्यायाधिपः भवति सौमन सेनः। 

  जनुवरिमासे नवमदिनाङ्के  वर्तमानीनः मुख्यन्यायाधिपः नितिन जंदारः सेवानिवृत्तः भविष्यति। तत्स्थाने अस्ति न्यायाधीशस्य सौमनस्य नियुक्तिः। कोल्कोत्ताप्रदेशीयो भवत्ययम्। केरलोच्चन्यायालयस्य न्यायाधिपं ए मुहम्मद मुष्ताखं सिक्किमराज्यस्य मुख्यन्यायाधीशं कर्तुमपि निर्देशः कृतः।

 नरेन्द्रमोदिने ओमानस्य  परमोन्नतनागरिकबहुमतिः। 

मोदिने ओर्डर् ओफ् ओमान् पुरस्कारसमर्पणम्। 

मस्कट्> ओमानराष्ट्रस्य परमोन्नतनागरिकबहुमतिः 'ओर्डर् ओफ् ओमान्' भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने समर्पिता। ओमानस्य शासनाधिकारी सुल्तान् हैतं बिन् तारिखः मस्कटे अल् बराका राजभवने  मोदिने एनं  पुरस्कारं दत्तवान्। भारत-ओमानयोः सौहार्दं प्रबलीकर्तुं मोदिना कृतं योगदानं पुरस्कृत्य आसीदियं बहुमतिः। 

  मोदिने कस्माच्चन विदेशराष्ट्रात् लभ्यमानः २८ तमः पुरस्कारो भवत्येषः। गतदिने 'ग्रेट् ओणर् निषान् ओफ् एत्योपिया' नामकः एत्योपियाराष्ट्रस्य पुरस्कारः अपि मोदिवर्याय लब्धः।

Thursday, December 18, 2025

 नवदिल्ल्यां वायूप्रदूषणम् अतिरूक्षम्।

50% कर्मकराः गृहे उपविश्य कार्यालयकर्म करणीयः। उल्लङ्घयति चेत् दण्डः दापयिष्यति।

  नवदिल्ली> वायूप्रदूषणसमस्या अतिरूक्षे जायमाने सन्दर्भेऽस्मिन् सर्वाः सर्वकारीयसंस्थाः निजीयसंस्थाः च प्रतिशतं पञ्चाशत् (50%) कर्मकराः कार्यलयकर्म गृहात् एव करणीय इति दिल्लीसर्वकारेण आदेशः दत्तः। आदेशं उल्लङ्घयति चेत् दण्डः दापयिष्यति इति पूर्वसूचना अपि सर्वकारेण दत्ता। नवदिल्ल्याम् अस्मिन् ऋतौ वायुमानं दिसंबर् १५ तमे दिने प्रातःकाले ४९८ 'ए क्यू ऐ सिवियर् प्लस्' विभागे रेखाङ्कितम्। शनिवासरादारभ्य मङ्गलवासरपर्यन्तं नवदिल्ल्याम् अतिशक्तेन हिमधूल्यावरणेन बहूनि यानमार्गापघाताः दुरापन्नाः।

 प्रधानमन्त्री ओमाने। 

उभयव्यापारसन्धिः हस्ताक्षरीकरिष्यते। 

नरेन्द्रमोदिने मस्कट् विमाननिलये दत्तं स्वीकरणम्। 

मस्कट्> त्रिराष्ट्रपर्यटनस्य अंशतया भारतप्रधानमन्त्री नरेन्द्रमोदी बुधवासरे ओमानराष्ट्रं सम्प्राप्तवान्। मोदिनः सान्निध्ये उभयोरपि राष्ट्रयोर्मध्ये स्वतन्त्रव्यापारसन्धेः अङ्गीकारः भविष्यति। सन्धेः निर्वहणाय केन्द्रवाणिज्यमन्त्री पीयूष गोयलः मस्कटे प्राप्तवानस्ति। 

  २०२३ तमे वर्षे आरब्धा 'सेपा' नामिका आर्थिकसहयोगसन्धिचर्चा एव इदानीं सार्थकीभवति। 'गल्फ् को-ओपरेषन् कौण्सिल्' इत्यत्र तृतीयं बृहत्तमम् आयातलक्ष्यस्थानमस्ति ओमानः। २०२४-२५ तमे १०५० कोटि डोलरमितस्य भारत-ओमानोभयपक्षव्यापारः सम्पन्नः। 

  ओमाने मोदिने 'गार्ड् ओफ् ओणर्' इत्यनेन सह हृद्यं स्वीकरणं प्रदत्तम्। ओमानस्य विदेशकार्यमन्त्री उपप्रधानमन्त्री च  सय्यिद् षिहाब बिन् तारिख् अल् सैदः मस्कट् विमाननिलयं प्राप्य स्वीकृतवान्।

 तुषारप्रपातः - चतुर्थं टि-२० परित्यक्तम्। 

लख्नौ> कठिनेन तुषारप्रपातेन भारत-दक्षिणाफ्रिकयोः चतुर्थः टि-२० क्रिकटप्रतिद्वन्द्वः परित्यक्तः। किमपि कन्दुकक्षेपणं न संवृत्तम्। परम्परायां भारतं २ -१  इति रीत्या अग्रे तिष्ठति। पञ्चमः अन्तिमश्च प्रतिद्वन्द्वः श्वः अहम्मदाबादे सम्पत्स्यते।

 राष्ट्रिय विद्यालयीयकायिकस्पर्धायां केरलस्य वीरतापदम्

सीनियर् विभागे वीरतापदं प्राप्तः केरलसंघः।

लख्नौ>  विद्यालयछात्राणां राष्ट्रियकायिकोत्सवे केरलं किरीटं प्राप। सीनियर्, जूनियर्, सब् जूनियर् इति त्रिषु विभागेष्वपि केरलीयछात्राः प्रथमस्थानं प्राप्तवन्तः। प्रथमतया एव केरलस्य विभागत्रये अपि सम्पूर्णाधिपत्यम्। हरियानं, मध्यप्रदेशः, उत्तरप्रदेशः, दिल्ली इत्यादिषु राज्यस्थेषु नगरेषु आसन् भिन्नभिन्नस्पर्धाः सम्पन्नाः।

Wednesday, December 17, 2025

 चतुर्थं टि २० अद्य। 

लक्ष्यं परम्पराप्राप्तिः। 

लख्नौ> दक्षिणाफ्रिकां विरुध्य टि-२० क्रिकट् परम्परायाः चतुर्थः प्रतिद्वन्द्वः अद्य सायं भविष्यति। पञ्चस्पर्धात्मिकपरम्परायां तिस्रायामतीतायां भारतं २ - १ इति क्रमेण अग्रे अस्ति। एतां स्पर्धामपि विजित्य परम्पराप्राप्तिरेव भारतस्य लक्ष्यम्।

 प्रादेशिकप्रशासनद्वारा दुरन्तनिवारणं - 

केन्द्रसर्वकारेण ५०७ कोटि रूप्यकाणि अनुमोदितानि।

नवदिल्ली> राज्यस्थाभिः प्रादेशिकसर्वकारसंस्थाभिः दुरन्तसाध्यतालघूकरणाभियोजनानि प्रचालयितुं ५०७. ३७ कोटि रूप्यकाणि केन्द्रप्रशासनेन अनुमोदितानि। गृहमन्त्रिणा अमित शाहेन अध्यक्षताम् वहमानया उच्चस्तरीयसमित्या २० राज्येभ्यः एव धनराशिः अनुमोदितः। 

  प्राकृतिकदुरन्तान् निरोद्धुम् अभिमुखीकर्तुं च समाजान् सज्जीकर्तुमुद्दिश्य २०२१ तमे वर्षे आसीत् मोदिसर्वकारेण इयमभियोजना उद्घोषिता। इदानीमियं ग्रामतलेषु व्याप्यमाना अस्ति।

 मध्यप्रदेशे स्वीकृतरक्तानां षट् बालकानां 'एछ् ऐ वि' बाधा। 

इन्दोर्> मध्यप्रदेशे विविधेभ्यः आतुरालयेभ्यः रक्तं स्वीकृतवन्तः 'तलासीमिया' रोगेण पीडिताः षट् बालकाः HIV [एय्ड्स्]  रोगाधीनाः जाताः। १२ - १५ वयस्काः भवन्ति  ते। तलासीमिया रोगपरिहाराय अनुक्रमेण रक्तपरिवर्तनस्यान्तरे एव रोगबाधा। 

  नूतनरक्तपरिवर्तनानन्तरं बालकानां शारिरिकास्वास्थ्ये जाते परं कृते परिशोधने आसीत् एयिड्स्  रोगनिर्णयः। अस्मिन् वर्षे जनुवरिमासतः मेय्मासपर्यन्तं कालपरिधौ आसीत्  रोगप्रकरणानि आवेदितानि। मध्यप्रदेशस्य स्वास्थ्यमन्त्रिणा राजेन्द्र शुक्लेन अन्वेषणाय आदेशः दत्तः।

 खनितबोम्बस्फोटनं

सैनिकः वीरमृत्युं प्राप।

श्रीनगरं> जम्मु-काश्मीरस्य कुप्वार जनपदे मृद्गुप्तबोम्बस्फोटनेन एकः सैनिकः मृतः। जम्मु-काश्मीरे 'लैट् इन्फन्ट्रि' विभागे हविल्दार् पदीयः सुबैर् अहम्मदनामकः एव वीरमृत्युं प्राप। सोमवासरे आसीदियं दुर्घटना। 

  काश्मीरस्य बहुत्र स्थानेषु भीकरैः सह प्रतिद्वन्द्वः अनुवर्तते। सोमवासरे उधंपुरे अपि भीकरैः सह प्रतिद्वन्द्वः जातः। तत्रैकः रक्षिपुरुषः वीरमृत्युं प्राप। कश्चन भीकरः भुषुण्डिपतितः अभवत्।

Tuesday, December 16, 2025

 नरेन्द्रमोदिनः जोर्दानस्य राज्ञा सह मेलनं सम्पन्नम्। 

अम्मान्> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी जोर्दानराष्ट्रस्य राजा अब्दुल्ला द्वितीयः इब्नु अल् हुसैन् इत्यनेन सह मेलनं सम्पन्नम्। प्रादेशिकतात्पर्योपेताः विषयाः चर्चिताः। उभयोरपि राष्ट्रयोः हितानुसारसौहृदस्य दृढीकरणं भविष्यतीति सूच्यते। 

  पूर्वम् अम्मानस्थं विमाननिलयं प्राप्तवन्तं मोदिवर्यं जोर्दानस्य प्रधानमन्त्री जाफर हसनः साक्षादागत्य स्वीकृतवान्।

 ऊन१९ - एष्या चषकक्रिकट्। 

पाकिस्थानं पराजित्य भारतं पूर्वान्त्यचक्रे। 

अबुदाबी> ऊननवदशवयस्कानाम् एष्या चषकक्रिकट् स्पर्धायाः चतुर्थांशे प्रतिद्वन्द्वे पाकिस्थानदलं ९० धावनाङ्कैः पराजित्य भारतं  पूर्वान्त्यचक्रं प्राविशत्। प्रवासिकेरलीयः आरोण् जोर्ज् इत्यस्य वैभवपूर्णं कन्दुकताडनं, दीपेष् देवेन्द्रस्य आग्नेयकं कन्दुकक्षेपणं, कनिष्क चौहानस्य सर्वतोमुखक्रीडा च भारतम् अनायासविजयं नयन्ति स्म। 

  प्रथमं कन्दुकताडनं कृतवान् भारतसंघः ४६. १ क्षेपणचक्रेषु २४० धावनाङ्कैः बहिर्नीतः। प्रत्युत्तरताडने  ४१. २ क्षेपणचक्रेषु १५० धावनाङ्कान् सञ्चित्य  पाकिस्थानसंघस्य सर्वे बहिर्गताः। ४६ धावनाङ्कान्,त्रीणि द्वारकाणि च उपलब्धवान् कनिष्क चौहानः श्रेष्ठक्रीडकः जातः।

 मुम्बय्याम् कायिकेतिहाससंगमः।

सच्चिन्- मेसि संगमः कायिकप्रेमिणां कृते उत्साहलहरी।

मेसीवर्याय सच्चिनः स्वक्रीडावस्त्रं समर्पयति। 

मुम्बई> क्रिकट् इतिहासः सच्चिन् टेण्टुलकरः पादकन्दुकेतिहासः लयणल् मेसी च भारतीयपादकन्दुकेतिहासः सुनिल छेत्री, अन्ताराष्ट्रीयपादकन्दुकक्रीडकौ लूयी सुवारस्, रोड्रिगो पोली इत्येतैः सह यदा वाङ्कडे क्रीडाङ्कणं प्रविष्टवन्तौ तदा दशसहस्रशः कायिकाराधकाः आह्लादोन्मादावस्थां प्रापुः।क्रीडाङ्कणं सर्वं 'मेसी-- मेसी' आह्वानेन मुखरितमभवत्। 

  भारताय मुम्बई नगराय च सुवर्णनिमिषमेव मेसीवर्यस्य सन्दर्शनेन उपलब्धमिति सच्चिनः प्रस्तुतवान्। २०११ तमे वर्षे अस्मिन्नेव क्रीडाङ्कणे भारतस्य  क्रिकट् विश्वचषकप्राप्त्या सह निमषममुं सच्चिनः तुलनं कृतवान्। पादकन्दुके अपि वयं अत्युन्नतिं प्राप्यास्म इति सः प्रतीक्षामपि प्रकटीचकार। 

  मेसि वर्यः सच्चिनाय विश्वचषककन्दुकं सम्मानितवान्। सच्चिनस्तु   मेसि वर्याय आत्मनः दशमसंख्यााङ्कितं क्रीडावस्त्रं समर्पितवान्। क्रीडाङ्कणे सम्पन्नां भारतीयक्रीडकानां पादकन्दुकक्रीडामपि संवीक्षितवान्।

Monday, December 15, 2025

 प्रधानमन्त्रिणः त्रिराष्ट्रसन्दर्शनम् अद्य आरभते। 

नवदिल्ली> जोर्दानम्, एत्योपिया, ओमानम् इत्येतानि राष्ट्राणि सम्पश्य नयतन्त्रसौहृदं वर्धापयितुं प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे प्रस्थास्यति। 

  ३८ वर्षेभ्यः परमेव कश्चित् प्रधानमन्त्री जोर्दानं सम्पश्यति। राजीव गान्धिः आसीत् अन्तिमतया जोर्दानं सन्दृष्टवान् भारतस्य प्रधानमन्त्री। मोदिवर्यः अब्दुल्ला द्वितीयः नामकं जोर्दानराजं सम्पश्य विविधमण्डलेषु उभयराष्ट्रहितान्  निर्णयान् करिष्यति। तदनन्तरं सः एत्योपिया, ओमानं च सन्द्रक्ष्यति।

 तृतीयं टि २० - भारतस्य विजयः। 


धर्मशाला> अर्षदीप सिंहस्य हर्षित राणस्य च कन्दुकक्षेपणप्रभावेण दक्षिणाफ्रिकां विरुध्य तृतीये टि २० प्रतिद्वन्द्वे भारतस्य अनायासविजयः। प्रथमचरणे ताडनं कृतवान्   दक्षिणाफ्रिकादलः २० क्षेपणचक्रेषु ११७ धावनाङ्कान् सम्प्राप। प्रत्युत्तरताडने भारतदलः १५. ५ क्षेपणचक्रेषु  ताडकत्रयस्य विनष्टे १२० धावनाङ्कान् सम्प्राप्य विजयी अभूत्। अनेन विजयेन पञ्चस्पर्धात्मिकायां परम्परायां २-१ इति रीत्या भारतम् अग्रे तिष्ठति।

 नितिन नबीनः भाजपादलस्य   राष्ट्रियप्रवर्तननिरताध्यक्षः। 


नवदिल्ली> बिहारराज्यस्य वीथीनिर्माणविभागस्य मन्त्री नितिन नबीनः भाजपा दलस्य राष्ट्रियप्रवर्तननिरताध्यक्षरूपेण राजनैतिलकार्यसमित्या नियुक्तः। इदं स्थानं प्राप्यमाणः ऊनतमवयस्को भवति ४५ वयस्कः नितिनः। अयं राष्ट्रियाध्यक्षस्य जे पी नड्डावर्यस्य अनन्तरगामी भविष्यतीति कल्प्यते।

Sunday, December 14, 2025

 कर्मयोजनायाः नाम परिष्क्रियते। पूज्य बापु रोज़गार योजना इति।

   नवदिल्ली> महात्मा गान्धी राष्ट्रियकर्मयोजनायाः नामपरिष्करण-विधेयकस्य अङ्गीकारः केन्द्रमन्त्रिसभया प्रदत्तः। पूज्य बापु ग्रामीण-रोज़गारयोजना इत्यस्ति नवीननाम। १०० कर्मदिनानि १२५ इति वर्धिष्यन्ते। २००५ तमे यू पि ए सर्वकारेण एव इयं योजना समारब्धा। पूर्वं विद्यमान आङ्गलेयनाम हिन्दी भाषायां परिर्वत्य भवति नूतनं नामकरणम्। कर्मदिनानि अधिकतया आवश्यकानि इति कर्मकराणाम् अर्थनाम् अङ्गीकृत्य आसीत् कर्मदिनानां वर्धापनम् l