OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, December 26, 2025

 केरले तद्देशस्वयंशासनसंस्थासु अध्यक्षनिर्वाचनम् अद्य श्वः च।

अनन्तपुरी> केरलस्य प्रादेशिकप्रशासनानाम् अध्यक्षोपाध्यक्षस्थानानि प्रति सदस्येभ्यः निर्वाचनम् अद्य श्वः च दिनद्वयेन सम्पत्स्यते। अद्य १०. ३० वादनतः महानगर-नगराणाम्  अध्यक्षनिर्वाचनं भविष्यति। मध्याह्नानन्तरं २. ३० वादने उपाध्यक्षाणं निर्वाचनं च विधास्यति। 

 शनिवासरे ग्रामसभाध्यक्षाणाम् उपाध्यक्षाणां च निर्वाचनं पूर्वोक्तसमयक्रममनुसृत्य विधास्यति। 

  राज्ये आहत्य ६ महानगराणि, ८७ नगराणि, ९४१ ग्रामाः [पञ्चायत्ताः] च विद्यन्ते। तदतिरिच्य त्रितलप्रादेशिकप्रशासनव्यवस्थामनुसृत्य १५२ 'ब्लोक् पञ्चायत्ताः, १४ जिल्लापञ्चायत्ताः च वर्तन्ते।