असमे संघर्षशमनाय सेनाव्यवहारः।
गुवाहाटी> गोचरणस्थानेभ्यः अनधिकृताधिवासिनः अपगन्तव्याः इति विषये असमराज्ये वर्तमानां संघर्षावस्थां नियन्त्रयितुं सेना नियुक्ता। कर्बी आङ्लोङ्, उत्तरकार्बी आङ्लोङ् जनपदद्वये संघर्षः तीव्रः अस्ति।
शाद्वलभूमिं संरक्षितुं गवां चरणव्यवस्थां दृढीकर्तुं चोद्दिष्टमानेषु 'ग्रेसिंग् रिसर्व्' नामकेषु प्रदेशेषु अनधिकृतेन वासं कुर्वन्तः जनाः अपसरणीयाः इति अभियाच्य विविधाः राजनैतिक-सामाजिकसंघटनानां नेतृत्वे अतीतैः १२ दिवसैः महदान्दोलनं प्रचलन्नस्ति। आन्दोलकान् बलात् अपाकर्तुं यतितमिति संघर्षस्य हेतुः।