OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 25, 2025

 असमे संघर्षशमनाय सेनाव्यवहारः। 

गुवाहाटी> गोचरणस्थानेभ्यः  अनधिकृताधिवासिनः अपगन्तव्याः इति विषये असमराज्ये वर्तमानां संघर्षावस्थां नियन्त्रयितुं सेना नियुक्ता। कर्बी आङ्लोङ्, उत्तरकार्बी आङ्लोङ् जनपदद्वये संघर्षः तीव्रः अस्ति। 

  शाद्वलभूमिं संरक्षितुं गवां चरणव्यवस्थां दृढीकर्तुं चोद्दिष्टमानेषु 'ग्रेसिंग् रिसर्व्' नामकेषु प्रदेशेषु अनधिकृतेन वासं कुर्वन्तः जनाः अपसरणीयाः इति अभियाच्य विविधाः राजनैतिक-सामाजिकसंघटनानां नेतृत्वे अतीतैः १२ दिवसैः महदान्दोलनं प्रचलन्नस्ति। आन्दोलकान् बलात् अपाकर्तुं यतितमित्येतदेव संघर्षस्य हेतुः।