OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, December 25, 2025

 'ब्लू बेर्ड्' विक्षेपणं विजयप्रदम्। 


चेन्नै> इस्रो संस्थायाः पुनरपि अभिमाननिमेषः। यू एस् राष्ट्रम् आस्थानत्वेन वर्तमानस्य 'ए एस् टि स्पेस् मोबाइल्' इत्यस्य आशयविनिमयोपग्रहः ब्लू बेर्ड् - ६ इत्यमुं भ्रमणपथं प्रापयित्वा ऐ एस् आर् ओ नूतनचरितं रचयामास। श्रीहरिक्कोट्टा सतीश् धवान् केन्द्रात् बुधवासरे प्रभाते ८. ५५ वादने ६५०० किलोमितं भारयुक्तम् उपग्रहं वहती एल् वी एम् ३ नामिका विक्षेपिणी  आकाशं प्रति उदगच्छत्। १६ निमेषैः उपग्रहः भूमेः ५२० कि मी दूरस्थं भ्रमणपथं प्राप च। 

  भारतीयबहिराकाशमण्डलस्य सुप्रधानं पदक्षेपः भवत्ययं विक्षेप इति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रस्तुतम्।