मण्डलकालस्य श्वः परिसमाप्तिः।
दिव्याभरणानि श्वः सन्निधानं प्राप्स्यन्ते।
![]() |
| २४ तमे दिनाङ्के विशिष्टाभरणघोषयात्रा पार्थसारथिमन्दिरात् प्रतिष्ठति। |
शबरिगिरिः> केरले शबरिगिरि धर्मशास्तृमन्दिरे व्रतानुष्ठानेन अनुष्ठीयमानः ४१ दिवसीयानां मण्डलकालतीर्थाटनं शनिवासरे रात्रौ समाप्स्यते। शनिवासरे प्रभाते १०. १० तः ११. ३० वादनाभ्यन्तरे मण्डलपूजा विधास्यते। पूजासमये भगवद्विग्रहम् आलङ्कर्याणि विशिष्टसुवर्णाभरणानि [तङ्क अङ्की] अन्तर्भूतानि पेटकानि दिनद्वयात्पूर्वम् आरन्मुला पार्थसारथिमन्दिरात् भक्तिनिर्भरतापूर्वं प्रस्थितानि।
श्वः मण्डलपूजानन्तरं रात्रौ एकादश वादनपर्यन्तं भगवद्दर्शनसौविध्यं स्यात्। ततः पिनद्धम् गर्भगृहम् मकरसंक्रमकालपर्यन्तं पुनःकतिपयेभ्यः दिनेभ्यः परं उद्घाट्यते।
