एष्या चषक होक्की
कसाकिस्थानस्य उपरि बृहद्विजयः। [१५ -०]
राजगिरिः> एष्या चषक होक्कीस्पर्धायां भारतस्य तृतीये प्रतिद्वन्द्वे कसाकिस्थानं प्रत्युत्तररहितैः १५ लक्ष्यकन्दुकैः पराजयत। अनेन अनुस्यूतविजयत्रयेण पूल् ए विभागे भारतम् प्रथमस्थानमावहति।
एष्या चषक होक्की
भारतस्य 'सूपर् ४' स्थानं प्रतिष्ठितम्।
राजगिरिः> अनुस्यूततया द्वितीयविजयेन एष्या चषक यष्टिक्रीडास्पर्धायाः 'सूपर् ४' इत्यस्मिन् चरणे भारतस्य स्थानं लब्धम्। 'पूल् बि' प्रतिद्वन्द्वे जापानं ३-२ इति लक्ष्यकन्दुकक्रमेण पराजयत।
भारताय नायकः हर्मन् प्रीत सिंहः लक्ष्ययुगलं प्राप्तवान्। मन दीप सिंहः एकमपि सम्प्राप्तवान्। परं कसाकिस्थानं विरुध्य प्रतिद्वन्द्वः भारताय अवशिष्यते।
नरेन्द्रमोदिने वन्दे मातरगीतेन चीने स्वागतम्।
चीने नरेन्द्रमोदिने लब्धं स्वीकरणम्।
टियान् जिन्> एस् सि ओ शिखरसम्मेलनाय टियान् जिनं प्राप्तं भारतप्रधानमन्त्रिणं नरेन्द्रमोदिनं तत्रस्थः भारतीयजनततिः हृद्यतया स्वीचकार। शनिवासरे बिन्हाय् विमाननिलयं प्राप्तं मोदिनं भारतस्य चीनस्य च अधिकारिणः रक्तास्तरणं प्रसार्य स्वीचक्रुः। अनन्तरं वासस्थानं प्राप्तवति तत्र प्रतीक्षमाणाः भारतीयाः "भारत माता की जय्" आह्वानेन तथा 'वन्दे मातर'गीतालपनेन च स्वीचक्रुः। कथक् ओडीसी इत्यादीनि भारतीय कलारूपाणि, सितार्, सिन्दूर्, तबला इत्यादीनि वाद्योपकरणानि च स्वीकरणवेलायाम् उपयुक्तानि च।
नेहरु ट्रोफी नौकाक्रीडा - 'वीयपुरं चुण्टन्' किरीटं प्राप। .jpeg)
वि बी सी कैनकरी नामिका नौका प्रथमस्थानं प्राप्नोति।
आलप्पुष़ा> नौकाक्रीडास्पर्धासु अन्ताराष्ट्रप्रशस्तिमापन्ने नेहरु ट्रोफी जलोत्सवे चुण्टन् नामकनौकानां स्पर्धायां 'विल्लेज् बोट् क्लब् कैनकरी' [VBC Kainakari] इति नौकसंघटनेन नीयमाना वीयपुरं नामिका नौका अन्तिमस्पर्धायां विजयकिरीटम् अधरत्।
४ मिनेट् २१. ०८४ सेकन्ड् समयं स्वीकृत्य १. ११० कि मी दूरं वीयपुरं चुण्टन् तरणमकरोत्। 'मैक्रो सेकन्ड्' समयस्य व्यत्यये आसीत् इतराः चुण्टन् नौकाः अन्तिमाग्रं स्पृष्टवत्यः। २१ चुण्टन् नौकाः अस्मिन् वर्षे स्पर्धायां भागमकुर्वन्।
केरलस्य दीर्घतमस्य सुरङ्गमार्गस्य निर्माणोद्घाटनम् अद्य।
भारते तृतीयः दीर्घतमसुरङ्गमार्गः।
कोष़िक्कोट्> कोष़िक्कोट्तः वयनाटं प्रति गमनागमनं सुगमं कर्तुं युगलसुरङ्गमार्गस्य निर्माणोद्घाटनं रविवासरे सायं मुख्यमन्त्री पिणरायि विजयः करिष्यति। कोष़िक्कोट् जनपदस्थे आनक्कां पोयिल् स्थाने कल्लाटि स्थानात् वयनाटस्थं मेप्पाटि स्थानपर्यन्तं ८. ११ किलोमीटर् दीर्घः मार्गः अस्ति एषः। वर्तमानीनस्य तामरश्शेरि कन्दरमार्गसमस्यानां शाश्वतपरिहारः अनेन मार्गेण शक्यते।
२१३४ कोटि रूप्यकाणां व्ययं प्रतीक्षमाणः अयं मार्गः भारतस्य दीर्घतमसुरङ्गमार्गेषु तृतीयस्थानं वक्ष्यति।
ट्रम्पशुल्काः नीतिरहिताः इति यू एस् न्यायालयः।
न्यूयोर्क्> यू एस् राष्ट्रस्य आर्थिकावस्थां प्रबलीकर्तुमिति अभिमानेन विदेशराष्ट्राणामुपरि राष्ट्रपतिना डोनाल्ड ट्रम्पेन विधत्ताः शुल्काः बहवः नीतियुक्ताः नेति वाषिङ्टणस्थेन 'फेडरल् सर्कीट् अप्पील्' न्यायालयेन आदिष्टम्। अन्ताराष्ट्र आकस्मिक आर्थिकाधिकारम् [IEEPA] उपयुज्य ट्रम्पेन विहिताः शुल्काः नियमविरूद्धाः इति शनिवासरे न्यायालयेन आदिष्टम्।
किन्तु वर्तमानीनशुल्कान् ओक्टोबर् १४तम दिनाङ्कपर्यन्तम् अनुवर्तितुं न्यायालयः अनुज्ञामदात्। उपरिन्यायालयं पुनरवलोकनयाचिकां समर्पयितुमेवायं कालः। विधिः पक्षपाताधिष्ठित इति ट्रम्पेन प्रस्तुतम्।
राष्ट्रिय गीतासङ्गोष्ठी अद्य कालट्याम्।
कालटी> श्रीमद् भगवद्गीतादर्शनस्य प्रचाराय गीतास्वाध्यायसमित्याः नेतृत्वे अद्य राष्ट्रिय गीतासङ्गोष्ठी सञ्चाल्यते। अन्ताराष्ट्र गीतासंगोष्ठ्याः २५ तमवार्षिकस्य अंशतया एव गीतायनमिति कृतनामधेया इयं कालट्यां श्रीशारदा सैनिकविद्यालये प्रचाल्यते।
प्रभाते १० वादने राष्ट्रीय स्वयं सेवकसंघस्य सहकार्यवाहः कृष्णगोपालः संगोष्ठीसम्मेलनस्य उद्घाटनं करोति। केरल साङ्केतिकविश्वविद्यालयस्य कुलपतिः डो के शिवप्रसादः अध्यक्षः भविष्यति। भारतीय विचारकेन्द्रस्य निदेशकः आर् सञ्जयः आमुखभाषणं करिष्यति।
ततः 'भगवद्गीता विकसितभारतं च' इत्यस्मिन् विषये डो के एस् राधाकृष्णः, 'भगवद्गीता परिवर्तमानः कालश्च' इत्यस्मिन् विषये नीतिज्ञः शङ्कु टि दासः, अनन्तरं डो माली रामनाथः, ब्रह्मचारी सुधीर चैतन्यः च भाषणं करिष्यन्ति।
'काफा' पादकन्दुके भारतस्य शुभारम्भः।
हिसोर्> ताजिकिस्थानराष्ट्रे सम्पद्यमानायाः 'काफा' (Central Asian Football Association) इत्यस्य 'नेषन्स् चषक'स्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे भारतगणस्य विजयः। आतिथेयगणं ताजिकिस्थानं २-१ इति लक्ष्यकन्दुकक्रमेण पराजयत। नूतनपरिशीलकस्य खालिद जमीलस्य शिक्षणे प्रथमप्रतिद्वन्द्वः आसीदयम्।
स्पर्धायाः प्रथमार्धे भारतगणस्य प्रतिरोधक्रीडकौ अन्वर अली, सन्देश् जिङ्गन् च भारताय एकैकं लक्ष्यकन्दुकं प्राप्तवन्तौ।
भारतीय-प्रौद्योगिकीय-संस्थाने द्वादशदिनात्मका संस्कृत-शिक्षक-प्रशिक्षण-कार्यशाला सम्पन्ना।
-नेवलकिशेरः
“राष्ट्रियपुनरुत्थानस्य दिशि सार्थकः प्रयासः”
रूडकि> संस्कृतभारती -जनपद-रूडकिण्याः प्रेरणया भारतीयप्रौद्योगिकीयसंस्थानस्य (IIT) रूडकिण्याः व्यवस्थापन-अध्ययन-विभागस्य (DOMS) संस्कृतक्लबस्य च संयुक्त-तत्त्वावधाने आयोजिते द्वादशदि नात्मिका संस्कृत-शिक्षक-प्रशिक्षण-कार्यशाला अद्य सफलतया समापनं जातम्।
18 अगस्तात् 29 अगस्त् 2025 पर्यन्तं प्रचलितायाम् अस्मिन् कार्यशालायाम् 82 प्रतिभागिनः पंजीकरणं कृतवन्तः, तेषु 75 जनाः नियमिततया प्रशिक्षणं प्राप्नुवन्। अस्य कार्यशालायाः प्रमुखोद्देश्यः आसीत्—विद्यालय-शिक्षकान् संवादात्मक-व्यावहारिक-शैल्यां संस्कृत-शिक्षणस्य प्रशिक्षणं दातुं, येन छात्रेषु संस्कृतभाषायाः भारतीयज्ञानपरम्परायाः च विषये रुचिः गौरवबोधः च जाग्रियताम्।
कार्यशालायाः संरक्षक-स्वरूपेण माननीयः निदेशकः IIT रूडकिण्याः डॉ. कमलकिशोरः पन्तः, उत्तराखण्ड-संस्कृत-शिक्षा-निदेशकः डॉ. आनन्दः भारद्वाजः, संस्कृतभारती-उत्तराखण्ड-प्रान्तीयमन्त्री श्रीः गिरिशः तिवारी, संगठनमन्त्री श्रीः गौरवः च गरिमामयेन सन्निधानेन समापन-सत्रे उपस्थिताः आसन्।
मार्गदर्शक-स्वरूपेण श्रीः अनिलः गौरीशेट्टी (IIT संस्कृतक्लब), प्रोफेसरः रजत अग्रवालः (हेड् DOMS), श्रीः नवलकिशोरः पन्तः (संस्कृतभारती), डॉ. भारती शर्मा (अध्यक्षा, संस्कृतभारती रूडकिणी-जनपदः) विशेषं योगदानं दत्तवन्तः।
संस्कृतभारती-कार्यकारिण्याः सदस्याः—श्रीमती श्रद्धा हिन्दू (मन्त्री), आचार्यः विष्णुः गौडः (शिक्षणप्रमुखः), श्रीः पुरुषोत्तमः (पत्राचारप्रमुखः), श्रीः राहुलः जखमोला (सम्पर्कप्रमुखः), डॉ. विजयत्यागी, डॉ. रामेश्वरः (खण्ड-सहसंयोजकौ) च सक्रियं दायित्वं निर्वहतः।
अस्मिन् कार्ये समाजस्य, प्रशासनस्य, शिक्षणसंस्थानानां च सहयोगः अप्रतिमः आसीत्। विशेषतया माध्यमिक-उत्तरमाध्यमिक-विद्यालयप्रधानाचार्यः, शोधछात्राः, समाजसंस्थाः—राष्ट्रस्वयंसेवकसङ्घः, संस्कारभारती, राष्ट्रसेविका-समिति, अरुणिमा ए थिङ्किङ्ग् वेव्, भारतविकासपरिषदः इत्यादयः महत्त्वपूर्णं योगदानं दत्तवन्तः।
“संस्कृतभारती-रूडकिणी-जनपदस्य एषः प्रयासः राष्ट्रीयपुनरुत्थानस्य दिशि सार्थकः पदः।”
एष्याचषक होक्की।
विजयेन भारतस्य प्रारम्भः।
राजगिरिः> बिहारस्थायां राजगिर्यां आरब्धायाम् एष्याचषक यष्टिक्रीडावीरस्पर्धायां भारतस्य प्रथमा क्रीडा विजयेन परिसमाप्ता। 'पूल् ए' सरण्यां भारतं चीनं पराजयत। नायकस्य हर्मन् प्रीत सिंहस्य अनुस्यूतत्रयलक्ष्येण [hat trick] भारतं विजयं प्राप। भारतेन ४ लक्ष्यकन्दुकेषु प्राप्तेषु चीनेन त्रीणि लक्ष्यकन्दुकानि सम्प्राप्तानि।
भारते ५. ९९ कोटिरूप्यकाणां निक्षेपाय जापानम्।
नरेन्द्रमोदी जापानं प्राप्तवान्।
टोक्यो> १५ तम सांवत्सरीये शिखरसम्मेलने भागं कर्तुं भारतप्रधामन्त्री नरेन्द्रमोदी गतदिने जापानं सम्प्राप्तवान्। जापानस्य प्रधामन्त्री षिगेरु इषिबा इत्यनेन सह मेलनं सम्पन्नम्।
आगामिदशकाभ्यन्तरे जापानदेशात् १० लक्षं कोटि येन् मितस्य [५. ९९ लक्षं कोटि रूप्यकाणि।] निजीयनिक्षेपं भारते विधातुं मोदिनः सन्दर्शनेन अशक्यत इति सूच्यते। आर्थिकभागभागित्वं, आर्थिकसुरक्षा, विसापत्रं, पारिस्थितिकसुस्थिरता, साङ्केतिकविद्या, स्वास्थ्यं, राष्ट्रसुरक्षा इत्यादिषु मण्डलेषु दशवर्षाणि यावत् तन्त्रपरं भागभागित्वं प्रबलीकर्तुं उभयोः राष्ट्रयोर्मध्ये निर्णयः अभवत्।
कीवे रष्यायाः घोरमाक्रमणं - १५ जनाः हताः।
कीव्> युक्रैनस्य राजधान्यां कीव् नगरे गुरुवासरे प्रत्युषसि रष्यया विधत्ते घोरे आक्रमणे त्रीन् बालकान् अभिव्याप्य १५ जनाः मृत्युमुपगताः। ४८ जनाः व्रणिताः।
अमेरिकाराष्ट्रेण शान्तिचर्चासु क्रियमाणासु आसीत् इदमाक्रमणम्। ५९८ आत्मघातिड्रोण् यन्त्राणि, ३१ बालिस्टिक्-क्रूस् आग्नेयास्त्राणि उपयुज्य २० स्थानेषु आसीदाक्रमणम्।
मनोभारं न्यूनीकर्तुं शिक्षकाणां कृते ध्यानपाठाः।
कण्णूर्> "त्रीणि दिनानि चलदूरवाण्याम् अपसृतमात्रायामेव मनोभारः अर्धमात्रं न्यूनीकृतः। तृतीयदिने मौनभञ्जनेन नूतनजन्मलाभ इव" - कथनमिदं केरलस्य उच्चतरविद्यालयीयशिक्षकाणाम्। राज्यशिक्षाविभागेन आयोज्यमानं 'Mindfulness' नामकं परिशीलनं अध्यापकानां मध्ये सविशेषेण अनुभूयते।
"यदि छात्राणां कृते उपदेशानुशासनादिकं ]counseling] प्रदीयेत् तर्हि तेषु सहानुभूतिः आवश्यकी। अध्यापकेषु मनोभारः अस्ति चेत् तन्न जायेत। अतः प्रथमं अध्यापकानां मनोभारं न्यूनीक्रियेत। तदर्थं परिशीलनं ददाति।" - सार्वजनीनशिक्षाविभागस्य मुख्यकार्यदर्शी [Principal Secretary] के वासुकी महाभागा अवदत्। चलदूरवाणीः दूरं परित्यज्य दिनद्वयं सम्पूर्णमौनं भजित्वा शाकाहारमात्राः भूत्वा दिनत्रयात्मकं ध्यानमेव परिशीलनस्य सारः। श्वासनियन्त्रणेन मौनेन च एकाग्रताचित्ताः भूत्वा अन्तर्दशनाय प्रेरणमेव हृदयपरिपूर्णतायाः [Mindfulness] मार्गः।
२०० उच्चतरशिक्षकाणां कृते अनन्तपुर्यां प्रथमस्तरे परिशीलनं विधास्यति। शतं शिक्षकाणां परिशीलनं सम्पन्नम्।
दक्षिणकोरियायां कक्ष्यासु पेशलचलदूरवाण्याः [Smart mobile phone] निरोधः।
सोल्> कक्ष्याप्रकोष्ठेषु चलदूरवाण्यः, समानानि वैद्युतोपकरणानि [इलक्ट्रोणिक्] इत्यादीनामुपयोगः दक्षिणकोरियायां निरुद्धः। एतदर्थं विधेयकं बुधवासरे लोकसभया अनुमोदितम्।
'स्मार्ट्' चलदूरवाण्यानाम् उपयोगः छात्राणाम् अध्ययने प्रतिकूलतया व्यवहरतीति गवेषणैः प्रत्यभिज्ञातम्। २०२६ मार्चमासे आरभ्यमाणात् अध्ययनवर्षादारभ्य निरोधः प्रबलं भविष्यति।
फिन्लान्ड्, फ्रान्सः, नेतर्लान्ड्, चीनः इत्यादिषु राष्ट्रेषु विद्यालयीयछात्राणां पेशलचलदूरवाण्युपयोगाय निरोधः उत नियन्त्रणम् अस्ति।
कुलशेखरपत्तनं विक्षेपिणीविक्षेपकेन्द्रम्
प्रथमविक्षेपः आगामिवर्षे।.jpeg)
निर्माणं पुरोगम्यमानं कुलशेखरपत्तनं विक्षेपकेन्द्रम्।
चेन्नई> तमिलनाटे तूत्तुक्कुटी नगरोपान्ते कुलशेखरपट्टणम् इत्यत्र प्रचाल्यमानस्य विक्षेपिणी (Rocket) विक्षेपणकेन्द्रस्य निर्माणं २०२६ डिसम्बरमासे सम्पूर्णं भविष्यतीति भारतीय बहिराकाश संशोधनसंस्थायाः [ISRO] अध्यक्षः डो वि नारायणः न्यवेदयत्। नवम्बरमासे इतः प्रथमविक्षेपिणीं विक्षिप्तुं शक्नुयादिति तेन प्रोक्तम्।
कुलशेखरपुरे विक्षेपस्थलस्य भूमिपूजायां भागं कृत्वा वार्ताहरान् भाषमाणः आसीत् इस्रो अध्यक्षः। अतीतवर्षे फेब्रुवरिमासे कुलशेखरपुरं विक्षेपकेन्द्राय प्रधानमन्त्री नरेन्द्रमोदी शिलान्यासं कृतवानासीत्। तिरुच्चेन्तूर्, शान्तन्कुलम् अंशयोः २३०० एकरमितं स्थाने अस्ति नूतनं विक्षेपकेन्द्रम्।
आकेरलम् अतिवृष्टिः।
वयनाट् कन्दरमार्गे मृत्प्रपातः; गमनागमनं स्थगितम्।
![]() |
| वयनाट् कन्दरमार्गं प्रति मृत्पातस्य दृश्यम्। |
तामरश्शेरी> केरले द्वित्रेभ्यः दिनेभ्यः पूर्वमारब्धा वृष्टिः अद्य सर्वत्र कठिना जाता। वयनाट् जनपदस्थे तामरश्शेरी कन्दरमार्गे बुधवासरे मृत्प्रपातेन गमनागमनं पूर्णतया अवरुद्धमासीत्। रात्रावपि अनुस्यूततया अनुवर्तितेन तीव्रप्रयत्नेन गुरुवासरे नियन्त्रितरीत्या गमनागमनं पुनरारब्धम्। किन्तु पुनः जातायां कठिनवृष्ट्यां पुनरपि पङ्कोपेतमृदा सह शिलाखण्डाः मार्गमपतन्। शिलाखण्डान् अपनीय मार्गं गमनागमनयोग्यं कर्तुम् इदानीमपि प्रयासः प्रचाल्यते।
मध्योत्तरजनपदेषु अद्य ओरञ्ज् जागरूकता उद्घोषिता। इतरेषु जनपदेषु पीतजाग्रत्ता प्रख्यापिता। शनिवासरपर्यन्तं वृष्टिरनुवर्तिष्यते इति पर्यावरणविभागेन सूच्यते।
प्रधानमन्त्रिणः जापान चीन सन्दर्शनानि श्वः आरभ्यन्ते।
शुक्रवासरे प्रतिष्ठन् मोदिवर्यः २९, ३० दिनाङ्कयोः जापाने सन्द्रक्ष्यति। तत्रत्यं प्रधानमन्त्रिणा षिगेरु इषिबा इत्यनेन सह १५तमे सांवत्सरीये उच्चशिखरोपवेशने भागं करिष्यति। मोदिनः अष्टमं जापानसन्दर्शनं तथा इषिबेन सह प्रथमं सांवत्सरीयम् उच्चशिखरोपवेशनं चेति विदेशकार्यसचिवः विक्रम मिस्री प्रोक्तवान्। राष्ट्ररक्षा, वाणिज्यं, साम्पदिकं, साङ्केतिकं, नागरिकसम्बन्धः इत्यादिविषयेषु परस्परभागभागित्वं उभयोरपि राष्ट्रनेत्रोः चर्चाविषयाः भविष्यन्ति।
आगस्ट् ३१ तमे दिनाङ्के नरेन्द्रमोदी चीनराष्ट्रं प्राप्स्यति। तद्दिने अपरेद्युः च सम्पत्स्यमानाः चर्चाः विश्वराष्ट्रैः साकाङ्क्षम् ससूक्ष्मम् अवलोक्यन्ते। चीनस्थे टियान् जिन् इत्यत्र सम्पत्स्यमाने 'षाङ् हाय् सहयोगसंघस्य [SCO] उच्चशिखरे मोदिवर्यः भागं करिष्यति। चीनस्य राष्ट्रपतिः षि जिन् पिङेन आतिथ्यं वक्ष्यमाणे सम्मेलने रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः, मध्येष्या, दक्षिणेष्या, मध्यपूर्वीय एष्या, दक्षिणपूर्वीय एष्या इत्येतेषां प्रान्तराष्ट्राणां नेतारोSपि भागं करिष्यन्ति।
शत्रुप्रपाटनाय भारतस्य 'हिमगिरिः' 'उदयगिरिः' च।
'स्टल्त् युद्धमहानौके राष्ट्राय समर्पिते।
विशाखपत्तनं> नौसेनां प्रवृद्धवीर्यां कुर्वत्यौ द्वे स्टेल्त् [Stealth] युद्धमहानौके राष्ट्राय समर्पिते। ७५% यावत् तद्देशीयनिर्मिते ऐ एन् एस् हिमगिरिः , ऐ एन् एस् उदयगिरिः इत्येते गूढात्मिके महानौके राष्ट्रस्य पूर्वसमुद्रद्वारा जायमानां शत्रुभीषां निवारयितुं पूर्वीयक्षेत्रे जागरूकतां निर्वक्ष्यतः। राष्ट्रसमर्पणकार्यक्रमे रक्षामन्त्री राजनाथ सिंहः अध्यक्ष आसीत्।
ऐ एन् एस् हिमगिरिः
![]() |
| ऐ एन् एस् हिमगिरिः। |
+ ६६७० टण् मितं भारयुक्ता अस्ति।
+ अत्याधुनिकानि गूढसंविधानानि सन्ति।
+ ब्रह्मोस् अग्निबाणाः, बराक् 8 इति व्योमप्रतिरोधसंविधानं, अन्तर्वाहिनिविरुद्ध अग्निक्षेपणीवाहिन्यः [Rocket launchers], Torpedo tubes इत्यादीनि सन्ति।
ऐ एन् एस् उदयगिरिः
![]() |
| ऐ एन् एस् उदयगिरिः। |
+ ६७०० टण् मितं भारः।
+ शत्रूणां रडार्, इन्फ्रारेड चेष्टाः प्रतार्य अग्रे गन्तुं नूतनाः छलरूपरेखाः [Stealth design]।
+ ब्रह्मोस् सूपर्सोणिक् आग्नेयास्त्राणि, बराक् 8 आग्नेयास्त्राणि च उपयोक्तुं शक्यते।
भारतस्य प्रलयसूचना
पाकिस्थानं द्विलक्षं नागरिकान् अपानयत्।
लाहोरः> उत्तरभारते दिनानि यावत् अनुवर्तमानया अतिवृष्ट्या सिन्धू, चेनाब्, सत्लज्, रवि नद्यः आप्लुतोदकाः इत्यतः भारतं पाकिस्थाने जलोपप्लसंभावनामधिकृत्य तद्राष्ट्राय पूर्वसूचनामदात्। अतः पाकिस्थानं लक्षद्वयं जनान् सुरक्षितस्थानानि प्रति अपानयत्।
पाकिस्थानेनैवेदं वृत्तान्तं निगदितम्।नयतन्त्रमार्गेण आसीत् पाकिस्थानाय भारतस्य जलोपप्लवमधिकृत्य जाग्रत्तानिर्देशः। पहलगामभीकराक्रमणस्य अनन्तरं राष्ट्रद्वयस्य प्रथमः नयतन्त्रव्यवहारः आसीदयम्।
पौढीगढवालजनपदे पदोन्नतिसम्बद्धतया राजकीयशिक्षकसंघस्य प्रतिषेधः।
वार्ताहर:- कुलदीपमैन्दोला।
राजकीयशिक्षकसंघः उत्तराखण्डस्य पौढीगढवालजनपदस्य शिक्षा-विभागस्य जिला-मुख्यालये एकदिवसीय-धर्णा-प्रदर्शनं कृतवान्। स्वसेवाकालस्य पदोन्नतेः कृते आसीत् प्रतिषेधः। पञ्चदशशाखाभ्य: सर्वे अध्यक्षाः, मन्त्रिणश्च अन्ये सदस्याश्च भागं स्वीकृतवन्तः। ततः पूर्वमेव सर्वे शिक्षकाः स्वस्वविद्यालयेषु खण्ड-शिक्षाकार्यालये पदोन्नतेः कृते "चौकडाउन" इति धर्णाप्रदर्शनं च अकुर्वन्।
जम्मु-काश्मीरे हिमाचले च आकस्मिकप्रलयः।
![]() |
| जम्मु-काश्मीरे आकस्मिकप्रलयः। |
षट् तीर्थाटकान् अभिव्याप्य १६ जनाः मृताः।
श्रीनगरं> कठोरवृष्टिकारणतः जम्मु-काश्मीरे हिमाचलप्रदेशस्य मणालि प्रदेशे च बहुनाशः। प्रलयदुष्प्रभावे जम्मु-काश्मीरे १३ जनाः मृत्युमुपगताः। दिनत्रयेण अनुवर्तमानया कठोरवृष्ट्या रियासि जनपदे वैष्णोदेवीमन्दिरस्य समीपे जाते मृत्स्खलने षट् तीर्थाटकाः विनष्टप्राणाः अभवन्। १४ जनाः क्षताः च।
हिमाचलप्रदेशे कुलु मणालि इत्यादिप्रेदेशेष्वपि महानाशः दुरापन्नः। बियास् नदी आप्लुतोदका वर्तते। चण्डिगढ-मणाली राष्ट्रियमार्गे बहुषु स्थानेषु मार्गाः च्युताः जाताः।
भारतस्योपरि ट्रम्पस्य अधिकशुल्कः अद्य प्रबलं भविष्यति।
वाषिङ्टणः> रष्यायाः तैलेन्धनं क्रीणाति इति कारणात् यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेन निश्चितः २५% अधिकः दण्डशुल्कः अद्य प्रबलं भविष्यति। वर्तमानीयेन २५% शुल्केन सह अस्य दण्डशुल्कस्य योगेन भारतात् अमेरिकाम् आयातवस्तूनां शुल्कः ५०% भविष्यति।
यू एस् प्रशासनेन सोमवासरे एतदधिकृत्य संगृहीतविज्ञप्तिः प्रकाशिता। एतदनुसृत्य बुधवासरे यू एस् समयानुसारं अर्धरात्रे १२.०१ वादनात्परं [भारतीयसमयः अहनि नववादनम्] अमेरिकीयविपणीं प्राप्तवतां तथा सम्भारशालाभ्यः विपणीं प्रस्थितानां भारतसामानानां च दण्डशुल्कः बाधकः भवेत्। पूर्वनिश्चितः आयातकरः आगस्ट् सप्तमदिनाङ्के प्रवृत्तिपथमागतः आसीत्।
अमेरिकायाः अधिकशुल्कः।
भारतं निर्बन्धाधीनं न भविष्यति - प्रधानमन्त्री। 
नरेन्द्रमोदी अहम्मदाबादे वीथीप्रदर्शने।
अहम्मदाबादः> यावदधिकः निर्बन्धः जायते चेदपि लघुस्तरीयसंरंभकाणां कृषकाणां गोपालकानां च अहिताय किमपि न करिष्यतीति प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान्। अहम्मदाबादे गुजरात् राज्याय ५४०० कोटि रूप्यकाणां परियोजनानां समर्पणं शिलान्यासं च कृत्वा, सम्मेलने भाष्यमाणे "ते बहुधा प्रेरणां विधास्यन्ति चेदपि भारतस्य तात्पर्यसंरक्षणाय दुर्गः इव स्थास्यामि" - मोदिवर्यः ट्रम्पस्य अमेरिकायाः वा नाम अनुक्त्वा प्रस्तुतवान्।
गासायाम् आतुरालये आक्रमणं
वार्ताहरान् अभिव्याप्य २० मरणानि।
डेयर् अल् बला> दक्षिणगासायां बृहत्तमम् आतुरालयं 'नासर्' इत्यभिधानं लक्ष्यीकृत्य सोमवासरे इस्रयेलः ड्रोण् तथा बोम्बान् उपयुज्य आक्रमणमकरोत्। पञ्च वार्ताहरानभिव्याप्य २० जनाः मृताः।
अमेरिकायाः वार्ताकारकः 'ए पि' इत्यस्मै प्रवर्तमाना स्वतन्त्रदृश्यमाध्यमप्रवर्तका [Freelance visual journalist] मरियं डग्गा [३३], 'अल् जसीरा' इत्यस्य छायाग्राहकः मुहम्मद सलामः, रोयिटेर्स् पत्रिकायाः छायाग्राहकः हुस्साम अल् मस्री इत्येते मृतेषु प्रमुखाः वार्ताहराः। युद्धमारब्धात् २०२३ ओक्टोबर् सप्तमदिनाङ्कात् आरभ्य गासाजनानां दुरितान् विश्वसमक्षम् आनीतेषु वार्ताहरेषु मुख्या आसीत् मरियं डग्गा।
जर्मनीतः ६ अन्तर्वाहिनीः क्रेतुमुद्यमः।
७०,००० कोटीनामनुज्ञा।
नवदिल्ली> 'प्रोजेक्ट् इन्डिया - ७५' अभियानस्य अंशतया जर्मनीतः ७०,००० कोटिरूप्यकाणां व्ययेन नूतनपरम्पराविभागे अन्तर्भूताः षट् अन्तर्वाहिनीः क्रेतुं सन्धिकरणाय केन्द्रप्रशासनस्य अनुज्ञा। रक्षामन्त्रालयस्य 'मसगोण् डोक् षिप् बिल्डेर्स् लिमिटेड' [Mazagone Dock Ship Builders Ltd] इत्यस्य कृते एव अनुज्ञा दत्ता। अष्टमासाभ्यन्तरे चर्चां पूर्तीकर्तुं रक्षामन्त्रालयेन उद्दिश्यते।
भारतस्य सम्पूर्ण व्योमप्रतिरोधकवचं सफलम्।
भुवनेश्वरं> व्योमभीषां प्रतिरोद्धुं भारतस्य संयोजितव्योमप्रतिरोधसंविधानपरीक्षणं विजयकरमभवत्। राष्ट्रस्य रक्षागवेषण-विकसन-संघटनेन साक्षात्कृतमस्ति 'समग्र व्योमप्रतिरोधकवचं [Integrated Air Defense Weapon System] । तस्य परीक्षणं ओडीषातटे चान्दिपुरे फलप्राप्त्या सम्पन्नम्।
आकाशमार्गेण गम्यमानं मनुष्यरहितविमानद्वयं एकं 'मल्टी कोप्टर् ड्रोण्' इत्येतच्च आकाशे विभिन्नोच्चेषु विभिन्न लक्ष्येषु च बभञ्ज। स्वतन्त्रतादिने प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घोषितस्य संयोजितव्योमप्रतिरोध कवचस्य सुदर्शनचक्राभिधेयस्य साक्षात्कारांशतया आसीदिदं परीक्षणम्।
न्योमा - भारतस्य उच्चतरः सैनिकव्योमनिलयः। 
समुद्रवितानात् १३,७०० पादमिते वर्तमानः नयोमा सैनिकव्योमनिलयः।
अभिमाननिलयस्य उद्घाटनम् ओक्टोबरमासे।
नवदिल्ली> हिमालयसानुनि भारतव्योमसेनायै निर्मितः उत्कृष्टः विमानावतरणनिलयः [Advanced landing ground] उद्घाटनाय सज्जः वर्तते। चीनसीमायाः समीपे न्योमा इत्यत्र निर्मितं निलयम् ओक्टोबरमासे प्रधानमन्त्री नरेन्द्रमोदी उद्घाटयिष्यति। अनेन विश्वस्मिन् उच्चतरः चतुर्थः सेनाविमाननिलयः भविष्यति एषः।
समुद्रवितानात् १३,७०० पादमितम् उच्चस्थितः अयं निलयः चीनसीमायाः ३० किलोमीटर्, ले इत्यस्मात् २०० किलोमीटर् च दूरे वर्तते। Border Roads Organization संस्थया २०२३ सेप्टम्बर् मासे अस्य निर्माणमारब्धम्। 'रफाल्' युद्धविमानमभिव्याप्य सर्वाणां युद्धविमानानाम् उड्डयनम् अवतरणं च अत्र साध्यमस्ति। यस्मिन् आकस्मिकसन्दर्भे अपि सैनिकान् आयुधानि च जवेन प्रापयितुं शक्यते।
शीतकाले अत्र तापमानं त्रिंशत् डिग्री न्यूनं [- ३० डिग्री] भवति। २१८ कोटि रूप्यकाणि एवास्य निर्माणव्ययः।
आचार्यशिवशङ्करमिश्रः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कुलगुरुपदभारम् ग्रहीतवान्।
-डॉ. दिनेशचौबे, उज्जयिनी।
उज्जयिनीस्थस्य महर्षिपाणिनि-संस्कृतवैदिक-विश्वविद्यालयस्य नवनियुक्तः कुलगुरुः (कुलपति:) प्रोफेसरः शिवशङ्करमिश्रमहोदय: आचार्यवर्यः गुरुवासरे विश्वविद्यालयपरिसरे अष्टमः कुलगुरुरूपेण विधिवत् कार्यभारम् अधिगतवान्।
पदभारग्रहणात् पूर्वं तेन श्रीमहाकालेश्वरस्य आशिषः प्राप्तः। अनन्तरं विश्वविद्यालयपरिसरे स्थितस्य भगवान् श्रीपाणिनीश्वरमहादेवस्य पूजनम्, अभिषेकं, हवनं च कृत्वा कार्यभारं गृहीतम्। आचार्यमिश्रेण संस्कृतभाषायाः प्रसाराय, भारतीयज्ञानपरम्परायाश्च संरक्षण–विश्वव्यापकत्वाय पुनः स्वसंकल्पः उद्घोषितः।
ओण् लैन् द्यूतनिरोधनियमः क्रियासमर्थः जातः।
बह्व्यः संस्थाः प्रवर्तननिवृत्ताः [Uninstalled] बभूवुः।
नवदिल्ली> केन्द्रसर्वकारेण प्रस्तुतं अन्तर्जालीयद्यूतक्रीडा-पणव्यवहारनिरोधविधेयकं राष्ट्रपतिना च अङ्गीकृत्य शुक्रवासरे नियमः अभवत्। नियमे क्रियासमर्थे जाते प्रमुखाः ओण् लैन् द्यूतक्रीडावेदिकाः पिहिताः जाताः।
भारतक्रिकट् दलस्य आर्थिकप्रोत्साहक [sponsor] रूपेण वर्तमाना ड्रीम् ११, मै ११ सर्किल्, विन्सो, सुपी, पोकर् बासी इत्याद्याः संस्थाः तासां प्रवर्तनानि समापयन्त।
वीथिश्वानकप्रकरणे सर्वोच्चन्यायालयस्य परिष्करणम्।
वाक्सिनीकृत्य वन्ध्यीकृत्य मोचनीयाः।
नवदिल्ली> राष्ट्रराजधान्याम् अटनं कुर्वतः वीथिशुनकान् गृहीत्वा नगरात् बहिः अभयकेन्द्रं नेतव्याः इति सर्वोच्चन्यायालयस्य द्व्यङ्गनीतिपीठस्य आदेशः त्र्यङ्गनीतिपीठेन परिष्कृतः।
यदि श्वानाः न दोषकारिणः तान् वन्ध्यीकृत्य रोगप्रतिरोधसूचीप्रयोगं [Vaccination] च कृत्वा यतः निगृहीताः तत्रैव मोक्तव्याः इति परिष्कृतादेशः न्यायालयेन विधत्तः। सोन्मादविषाः अक्रमभावयुक्ताः च शुनकाः अभयकेन्द्रे एव वस्तव्याः।
वीथिश्वानेभ्यः वीथ्यां भोज्यवस्तूनि न दातव्यानीति न्यायालयेन कर्कशेन निर्दिष्टम्। प्रत्येकं नगरविभागे [ward] शुनकानां संख्यानुसारं भोज्यप्रदानाय सविशेषं स्थानं कल्पनीयम्। प्रकरणमिदं अष्टसप्ताहानन्तरं परिगणिष्यते।