OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 29, 2025

 दक्षिणकोरियायां कक्ष्यासु पेशलचलदूरवाण्याः [Smart mobile phone] निरोधः। 

सोल्> कक्ष्याप्रकोष्ठेषु चलदूरवाण्यः, समानानि  वैद्युतोपकरणानि [इलक्ट्रोणिक्] इत्यादीनामुपयोगः दक्षिणकोरियायां निरुद्धः। एतदर्थं विधेयकं बुधवासरे लोकसभया अनुमोदितम्। 

 'स्मार्ट्' चलदूरवाण्यानाम् उपयोगः छात्राणाम् अध्ययने प्रतिकूलतया व्यवहरतीति गवेषणैः प्रत्यभिज्ञातम्। २०२६ मार्चमासे आरभ्यमाणात् अध्ययनवर्षादारभ्य निरोधः प्रबलं भविष्यति। 

   फिन्लान्ड्, फ्रान्सः, नेतर्लान्ड्, चीनः इत्यादिषु राष्ट्रेषु विद्यालयीयछात्राणां पेशलचलदूरवाण्युपयोगाय निरोधः उत नियन्त्रणम् अस्ति।