OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 28, 2025

 भारतस्य प्रलयसूचना 

पाकिस्थानं द्विलक्षं नागरिकान् अपानयत्।

लाहोरः> उत्तरभारते दिनानि यावत् अनुवर्तमानया अतिवृष्ट्या सिन्धू, चेनाब्, सत्लज्, रवि नद्यः आप्लुतोदकाः इत्यतः भारतं पाकिस्थाने जलोपप्लसंभावनामधिकृत्य तद्राष्ट्राय पूर्वसूचनामदात्। अतः पाकिस्थानं लक्षद्वयं जनान् सुरक्षितस्थानानि प्रति  अपानयत्। 

  पाकिस्थानेनैवेदं वृत्तान्तं निगदितम्।नयतन्त्रमार्गेण आसीत्  पाकिस्थानाय भारतस्य जलोपप्लवमधिकृत्य जाग्रत्तानिर्देशः। पहलगामभीकराक्रमणस्य अनन्तरं राष्ट्रद्वयस्य प्रथमः नयतन्त्रव्यवहारः आसीदयम्।