भारतस्य प्रलयसूचना
पाकिस्थानं द्विलक्षं नागरिकान् अपानयत्।
लाहोरः> उत्तरभारते दिनानि यावत् अनुवर्तमानया अतिवृष्ट्या सिन्धू, चेनाब्, सत्लज्, रवि नद्यः आप्लुतोदकाः इत्यतः भारतं पाकिस्थाने जलोपप्लसंभावनामधिकृत्य तद्राष्ट्राय पूर्वसूचनामदात्। अतः पाकिस्थानं लक्षद्वयं जनान् सुरक्षितस्थानानि प्रति अपानयत्।
पाकिस्थानेनैवेदं वृत्तान्तं निगदितम्।नयतन्त्रमार्गेण आसीत् पाकिस्थानाय भारतस्य जलोपप्लवमधिकृत्य जाग्रत्तानिर्देशः। पहलगामभीकराक्रमणस्य अनन्तरं राष्ट्रद्वयस्य प्रथमः नयतन्त्रव्यवहारः आसीदयम्।