शत्रुप्रपाटनाय भारतस्य 'हिमगिरिः' 'उदयगिरिः' च।
'स्टल्त् युद्धमहानौके राष्ट्राय समर्पिते।
विशाखपत्तनं> नौसेनां प्रवृद्धवीर्यां कुर्वत्यौ द्वे स्टेल्त् [Stealth] युद्धमहानौके राष्ट्राय समर्पिते। ७५% यावत् तद्देशीयनिर्मिते ऐ एन् एस् हिमगिरिः , ऐ एन् एस् उदयगिरिः इत्येते गूढात्मिके महानौके राष्ट्रस्य पूर्वसमुद्रद्वारा जायमानां शत्रुभीषां निवारयितुं पूर्वीयक्षेत्रे जागरूकतां निर्वक्ष्यतः। राष्ट्समर्पणकार्यक्रमे रक्षामन्त्री राजनाथ सिंहः अध्यक्ष आसीत्।
ऐ एन् एस् हिमगिरिः
![]() |
ऐ एन् एस् हिमगिरिः। |
+ ६६७० टण् मितं भारयुक्ता अस्ति।
+ अत्याधुनिकानि गूढसंविधानानि सन्ति।
+ ब्रह्मोस् अग्निबाणाः, बराक् 8 इति व्योमप्रतिरोधसंविधानं, अन्तर्वाहिनिविरुद्ध अग्निक्षेपणीवाहिन्यः [Rocket launchers], Torpedo tubes इत्यादीनि सन्ति।
ऐ एन् एस् उदयगिरिः ऐ एन् एस् उदयगिरिः।
+ ६७०० टण् मितं भारः।
+ शत्रूणां रडार्, इन्फ्रारेड चेष्टाः प्रतार्य अग्रे गन्तुं नूतनाः छलरूपरेखाः [Stealth design]।
+ ब्रह्मोस् सूपर्सोणिक् आग्नेयास्त्राणि, बराक् 8 आग्नेयास्त्राणि च उपयोक्तुं शक्यते।