OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 31, 2025

 राष्ट्रिय गीतासङ्गोष्ठी अद्य कालट्याम्। 

कालटी> श्रीमद् भगवद्गीतादर्शनस्य प्रचाराय गीतास्वाध्यायसमित्याः नेतृत्वे अद्य राष्ट्रिय गीतासङ्गोष्ठी सञ्चाल्यते। अन्ताराष्ट्र गीतासंगोष्ठ्याः २५ तमवार्षिकस्य अंशतया एव  गीतायनमिति कृतनामधेया इयं  कालट्यां श्रीशारदा सैनिकविद्यालये प्रचाल्यते। 

प्रभाते १० वादने राष्ट्रीय स्वयं सेवकसंघस्य सहकार्यवाहः कृष्णगोपालः संगोष्ठीसम्मेलनस्य  उद्घाटनं करोति। केरल साङ्केतिकविश्वविद्यालयस्य कुलपतिः डो के शिवप्रसादः अध्यक्षः भविष्यति। भारतीय विचारकेन्द्रस्य निदेशकः आर् सञ्जयः आमुखभाषणं करिष्यति। 

  ततः 'भगवद्गीता विकसितभारतं च' इत्यस्मिन् विषये डो के एस् राधाकृष्णः, 'भगवद्गीता परिवर्तमानः कालश्च' इत्यस्मिन् विषये नीतिज्ञः शङ्कु टि दासः, अनन्तरं डो माली रामनाथः, ब्रह्मचारी सुधीर चैतन्यः च भाषणं करिष्यन्ति।

Latest News