भारते ५. ९९ कोटिरूप्यकाणां निक्षेपाय जापानम्।
नरेन्द्रमोदी जापानं प्राप्तवान्।
टोक्यो> १५ तम सांवत्सरीये शिखरसम्मेलने भागं कर्तुं भारतप्रधामन्त्री नरेन्द्रमोदी गतदिने जापानं सम्प्राप्तवान्। जापानस्य प्रधामन्त्री षिगेरु इषिबा इत्यनेन सह मेलनं सम्पन्नम्।
आगामिदशकाभ्यन्तरे जापानदेशात् १० लक्षं कोटि येन् मितस्य [५. ९९ लक्षं कोटि रूप्यकाणि।] निजीयनिक्षेपं भारते विधातुं मोदिनः सन्दर्शनेन अशक्यत इति सूच्यते। आर्थिकभागभागित्वं, आर्थिकसुरक्षा, विसापत्रं, पारिस्थितिकसुस्थिरता, साङ्केतिकविद्या, स्वास्थ्यं, राष्ट्रसुरक्षा इत्यादिषु मण्डलेषु दशवर्षाणि यावत् तन्त्रपरं भागभागित्वं प्रबलीकर्तुं उभयोः राष्ट्रयोर्मध्ये निर्णयः अभवत्।