पौढीगढवालजनपदे पदोन्नतिसम्बद्धतया राजकीयशिक्षकसंघस्य प्रतिषेधः।
वार्ताहर:- कुलदीपमैन्दोला।
राजकीयशिक्षकसंघः उत्तराखण्डस्य पौढीगढवालजनपदस्य शिक्षा-विभागस्य जिला-मुख्यालये एकदिवसीय-धर्णा-प्रदर्शनं कृतवान्। स्वसेवाकालस्य पदोन्नतेः कृते आसीत् प्रतिषेधः। पञ्चदशशाखाभ्य: सर्वे अध्यक्षाः, मन्त्रिणश्च अन्ये सदस्याश्च भागं स्वीकृतवन्तः। ततः पूर्वमेव सर्वे शिक्षकाः स्वस्वविद्यालयेषु खण्ड-शिक्षाकार्यालये पदोन्नतेः कृते "चौकडाउन" इति धर्णाप्रदर्शनं च अकुर्वन्।
ते अपि उक्तवन्तः— स्थानान्तरणं, वरिष्ठ-कनिष्ठसंवर्गयोः विषमता, वेतनविषमता, शिक्षक-छात्रयोः हिताय कार्याणि च बहूनि कर्तव्यानि सन्ति, तेषां कृते सर्वकारस्य सहयोगः अपेक्षितः। षड्वर्षाणि यावत् सर्वकारेण विभागे पदोन्नतयः न कृता: इत्यतः अनेके शिक्षकाः एकस्मिन् पदे पदोन्नतिं विना एव निवृत्ताः भवन्ति। यत्र तु चतुर्थश्रेणी-कर्मचारी अपि स्वपदोन्नतिभिः राजपत्रित-अधिकारीपदं प्राप्नोति, तत्र बहूनां शिक्षकाश्चिरसेवापर्यन्तं पदोन्नतिं विना एव निवृत्तिः जाता। अतः शिक्षकाः उक्तवन्तः— "अधिकारह्रासस्य परिणामरूपेण वयं एकत्र समागत्य आह्वानं कर्तुं बाध्याः। अस्माकं सेवाकाले पदोन्नतेः अवसरः लब्धव्यः। सर्वकारेण भेदभावः न करणीयः।"
पूर्वजिलामन्त्री श्रीमान् मनमोहनचौहानः अवदत्— "पूर्वं अपि संघस्य आह्वानेन वयं एकत्रीभूय सर्वकारं प्रति अधिकारार्थं जागरूकं कृतवन्तः। तदा अस्माकं युक्तमाग्रहः पूरितः आसीत्। अद्यापि अस्माभिः एकत्रीभूतैः अधिकारार्थं प्रयत्नः करणीयः, येन सहायकाध्यापकपदात् प्रवक्तृपदपर्यन्तं, प्रवक्तृपदात् प्रधानाचार्यपदपर्यन्तं च पदोन्नतयः शीघ्रम् आरभ्येरन्।"
जिलामन्त्री श्री विजयेन्द्रसिंहबिष्टः अपि उक्तवान्— "पौढीगढवालजनपदस्य सर्वे शिक्षकाः संघस्य आह्वानेन विद्यालयात् आरभ्य खण्डपर्यन्तं, खण्डात् आरभ्य जनपदपर्यन्तं यथाशक्ति सहयोगं दत्तवन्तः। सर्वेषां एकः एव स्वरः, एकः एव संघर्षः च अस्ति— सर्वकारः विभागे सेवासक्तशिक्षकेभ्यः यथाकालं पदोन्नतेः अवसरं दद्यात्।"
सन्दर्भे अस्मिन् श्रीसञ्जयरावतः, श्रीविजेन्द्रसिंहतोमरः, वरदानबुडाकोटीः, गणेशपसबोला च सहैव पञ्चदशविकासखण्डेभ्य: सर्वे पदाधिकारिण: सदस्याः च उपस्थिताः आसन्।