OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 28, 2025

 प्रधानमन्त्रिणः जापान चीन सन्दर्शनानि श्वः आरभ्यन्ते। 


नवदिल्ली>
आगोलसमूहैः आकांङ्क्षया अवलोक्यमानं जापान चीन सन्दर्शनं शुक्रवासरे आरभ्यते। डोनाल्ड ट्रम्पेन क्रियमाणे शुल्कयुद्धे भारत-रूस-चीनानां नूतनं शाक्तिकपक्षं प्राधान्यमर्हति।

  शुक्रवासरे प्रतिष्ठन् मोदिवर्यः २९, ३० दिनाङ्कयोः जापाने सन्द्रक्ष्यति। तत्रत्यं प्रधानमन्त्रिणा षिगेरु इषिबा इत्यनेन सह १५तमे सांवत्सरीये उच्चशिखरोपवेशने भागं करिष्यति। मोदिनः अष्टमं जापानसन्दर्शनं तथा इषिबेन सह प्रथमं सांवत्सरीयम् उच्चशिखरोपवेशनं चेति विदेशकार्यसचिवः विक्रम मिस्री प्रोक्तवान्। राष्ट्ररक्षा, वाणिज्यं, साम्पदिकं, साङ्केतिकं, नागरिकसम्बन्धः इत्यादिविषयेषु परस्परभागभागित्वं उभयोरपि राष्ट्रनेत्रोः चर्चाविषयाः भविष्यन्ति। 

  आगस्ट् ३१ तमे दिनाङ्के नरेन्द्रमोदी चीनराष्ट्रं प्राप्स्यति। तद्दिने अपरेद्युः च सम्पत्स्यमानाः चर्चाः विश्वराष्ट्रैः साकाङ्क्षम् ससूक्ष्मम्  अवलोक्यन्ते। चीनस्थे टियान् जिन् इत्यत्र सम्पत्स्यमाने 'षाङ् हाय् सहयोगसंघस्य [SCO] उच्चशिखरे मोदिवर्यः भागं करिष्यति। चीनस्य राष्ट्रपतिः षि जिन् पिङेन आतिथ्यं वक्ष्यमाणे सम्मेलने रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः, मध्येष्या, दक्षिणेष्या, मध्यपूर्वीय एष्या, दक्षिणपूर्वीय एष्या इत्येतेषां प्रान्तराष्ट्राणां नेतारोSपि भागं करिष्यन्ति।