फिफा विश्वचषकः।
केप वर्दे साभिमानं पराजितम्।
स्वेदनिस्रावणेन अर्जेन्टीना प्रचतुर्धांशचक्रे।
मियामी> अत्यन्तमुत्साहोज्वले आकाङ्क्षानिर्भरे अधिकसमयं दीर्घिते च प्रतिद्वन्द्वे अर्जेन्टीना ३-२ इति लक्ष्यकन्दुकप्रकारेण केप वर्देदलं पराजित्य प्रचतुर्धांशचक्रं प्राविशत्। शक्तियुक्तं प्रतिद्वन्द्व्य आफ्रिकीयदलस्य साभिमाननिवृत्तिः।
प्रारम्भत एव शक्तं प्रतिरोधं विधत्तं केप वर्दे दलं प्रति अर्जेन्टीनायाः लक्ष्यप्रहाराय (goal shot) १५ तमनिमेषपर्यन्तं प्रतीक्षमाणाः अभवन्, आराधकाः। २९ तमे निमिषे मेस्सेः लक्ष्येण अर्जेंटीना अग्रे आगता। ५९ तमे निमिषे केपवर्देदलस्य डी दुवार्टे इत्यनेन लक्ष्यं प्रत्यर्पितम्। एवं समस्थितौ निश्चितसमयः समाप्तः। अस्मिन् विश्वचषके अर्जन्टीनायाः प्रथमसमस्थितिः!
अधिकसमये ९२ तमे निमिषे अर्जन्टीनायाः मार्टिनसेन द्वितीयं लक्ष्यमवाप्तम्। तत्तु १०३ तमे निमिषे केप वर्देस्य सिड्नी काब्रन् इत्यनेन प्रतिसमर्पितम्। आकांक्षाजनका समस्थितिः! विजयलक्ष्याय उभाभ्यामपि दलाभ्यां तीव्रं युद्धं कृतम्। १११ तमे निमिषे केप वर्दे दलस्य डिने बोर्गस् इत्यस्य स्वयंकृतानर्थेन अर्जन्टीना तृतीयं लक्ष्यं सम्प्राप्य पूर्वचतुर्थचक्रं प्रविवेश।
प्रथमविश्वचषके असाधारणवैभवं प्रकटितवन्तः केप वर्दे क्रीडकाः आराधकानां प्रशंसामुपलभ्य एव निवृत्ताः।