OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 11, 2026

 विख्याता गायिका एस् जानकी दिवंगता।


मैसुरु> शब्दमाधुर्येण संगीतास्वादकलोकं विस्मापितवती सुविख्याता चलच्चित्रगायिका एस् जानकी दिवंगता। ८८ वयस्का आसीत्। शनिवासरे सायं मैसूरु नगरस्थे अप्पोलो आतुरालये आसीदन्त्यम्। 

  शास्त्रीयसंगीतम् अनभ्यस्ता एस् जानकी विंशत्यधिकासु भाषासु उपार्धलक्षं गानानि आललाप। चतुर्वारं राष्ट्रियपुरस्कारं, १४ सन्दर्भेषु केरलस्य पुरस्कारं, सप्तवारं तमिलनाटस्य पुरस्कारं च गानालपने लब्धवती।