OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, July 11, 2026

 फिफा विश्वचषकः।

श्वः द्वे प्रतियोगिते - नोर्वे x इङ्गलाण्टः , अर्जेन्टीना x स्विट्सर्लान्टः। 

हालन्ट् केय्न् च।

यू एस्> प्रपूर्वान्त्यचक्रस्य अन्तिमं स्पर्धाद्वयं रविवासरे सम्पत्स्यते। रविवासरे प्रत्युषसि २. ३० वादने [भारतीयसमयः] नोर्वेदलम् इङ्गलाण्टदलेन सह स्पर्धिष्यते। फ्लोरिडायां मयामि क्रीडाङ्कणे अस्ति स्पर्धा। अस्मिन् विश्वचषके सप्त लक्ष्यकन्दुकाणि सम्पादितवान् नोर्वेगणस्य एर्लिङ् हालण्टः षट् लक्ष्याणि सम्पाद्य इङ्गलाण्टस्य हारि केय्नः च मुखामुखम् आगच्छतः। 

  प्राक्चतुर्थांशे ब्रसीलं पराजित्य एव नोर्वेदलस्य आगमनम्। इङ्गलाण्टस्तु आतिथेयं मेक्सिकोगणं विजित्य अस्ति चतुर्थांशं प्रविष्टः।

  रविवासरस्य प्रभाते ६. ३० वादने अर्जेंटीना स्विट्सर्लान्टेन सह मिसोरी नगरस्थे कसान्सिटी क्रीडाङ्कणे स्पर्धिष्यते। लयोणल् मेसीवर्ये एव अर्जेंटीनायाः प्रतीक्षा। ७२ वर्षेभ्यः परमेव स्विट्सर्लान्टः चतुर्थांशं क्रीडति।