OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 29, 2026

 कराचीमध्ये भीकराक्रमणम्। 

४ सैनिकाः हताः; ६ भीकराः मृताः। 

कराची> पाकिस्थाने सीमारक्षणसेनायाः कराचीशिबिरं प्रति विधत्ते भीकराक्रमणे चतुर्णां सैनिकानां प्राणहानिः। षट् भीकराः सैनिकैः व्यापादिताः, एकः निगृहीतश्च। 

  शनिवासरे रात्रौ आसीत् इयं घटना। स्फोटकवस्तूपेतेन वाहनेन प्राप्ताः भीकराः मुख्यकवाटं भञ्जयित्वा अन्तः प्रविष्टाः। टि टि पी इति भीकरसंघटनस्य उपविभागः नाम्ना 'जमा अत् उल् अह्रार्' घटनायाः उत्तरदायित्वं स्वीचकार।