OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 29, 2026

 जेम्स वेब् अन्तरिक्ष-दूरदर्शिनी पुनरपि विस्मितं कृतवती।

 

जेम्स वेब् अन्तरिक्ष-दूरदर्शिनी (JWST) यन्त्रेण द्वादशशतकोटिवर्षेभ्यः प्राक् परस्परं विलीयमानाः षड् आकाशगङ्गाः अन्विष्टाः। 'TGSSJ1530+1049' इति नामिका इयं आकाशगङ्गा-सङ्कुलिता भविष्ये एकां बृहदाकाराम् आकाशगङ्गां निर्मास्यति। अत्र तीव्रवेगेन नक्षत्राणां निर्माणमपि प्रचलति इति संशोधकाः वदन्ति।

विश्वस्य आदिकालीन-इतिहासस्य एकं दुर्लभं वातायनम् उद्घाट्य जेम्स वेब् अन्तरिक्ष-दूरदर्शिनी पुनरपि वैज्ञानिकजगत् विस्मितं कृतवती। महाविस्फोटात् (Big Bang) अनन्तरं प्रायः १८० कोटिवर्षेषु व्यतीतेषु, अर्थात् द्वादशशतकोटिवर्षेभ्यः प्राक्, षड् आकाशगङ्गाः परस्परं विलीयमानाः आसन् इति एतत् दुर्लभं दृश्यं वैज्ञानिकाः दृष्टवन्तः। भविष्ये एताः सर्वाः मिलित्वा विश्वस्य बृहत्तमासु आकाशगङ्गासु अन्यतमां निर्मास्यन्ति इति संशोधकानाम् अनुमानम् अस्ति।