OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, June 30, 2026

 असमे अरुणाचल प्रदेशे च प्रलयदुष्प्रभावः। 

आकस्मिकप्रलयः, भूस्खलनम्,  अनेके तिरोभूताः, महान्तः कष्टनष्टाः।

अरुणाचलप्रदेशे दुरापन्नः भूविच्छेदः। 

इटानगरं> असम-अरुणाचलप्रदेशराज्यद्वये महती कठोरा च वृष्टिः अनुभूयते। सोमवासरे दुरापन्ने आकस्मिकप्रलये अरुणाचलस्थेषु  केई पन्योर्,, पापुं पारे, पूर्वसियाङ् इत्यादिषु जनपदेषु उपत्रिंशत् स्थानेषु मृत्प्रपाताः कतिपयस्थानेषु भूविच्छेदाः च दुरापन्नाः। भूविच्छेदात् जाते आकस्मिकप्रलये बहूनि भवनानि क्षेत्राणि च विशीर्णानि। नव जनाः तिरोभूताः। वीथयः भग्नाः इत्यतः वायुसेना एव मुख्यतया रक्षाप्रवर्तनं करोति। 

  असमे षट्सु जनपदेषु महत्या वृष्ट्या जलोपप्लवः जातः। २०,००० जनाः सुरक्षितस्थानं नीताः। रेल् मार्गाः बहुत्र जलनिमग्नाः अभवन्।