केरले अतिवृष्टिजागरूकता।
श्वः जनपदद्वये शैक्षिकविरामः।
कोच्ची> बुधवासरे आकेरलम् अतिवृष्टिजागरूकता उद्घोषिता। कण्णूर् कासरकोड जनपदयोः श्वः ओरञ्जजागरूकता अस्ति। अस्मिन् जनपदद्वये अपि बुधवासरे 'प्रोफषणल्' कलालयान् अभिव्याप्य सर्वेषां शैक्षिकसंस्थानां वृत्तिविरामः घोषितः। किन्तु परीक्षा अभिमुखम् इत्येतयोः परिवर्तनं नास्ति।