नोर्वे विश्ववीरः भविष्यति वा?
चरित्रप्रमाणेषु विश्वासमर्पयित्वा 'गूढसिद्धान्तिनः'।
> अस्मिन् सन्दर्भे नोर्वेदलः विश्वचषकं प्राप्स्यति वा? चरित्रगणनामुपजीव्य तादृशः कश्चन सिद्धान्तः संरचयते। पूर्वभूतघटनानाम् आलम्बने अस्ति तादृशसिद्धान्तः रूपीकृतः।
विश्वचषकस्य निर्णायकचक्रे [knockout] येन गणेन जापानः पराजीयते तं गणं कः पराजापयते स गणः विश्वचषकं प्राप्स्यतीति स सिद्धान्तः। वादस्यास्य चरित्रस्य आलम्बनमस्तीति विशेषः।
२००२ विश्वचषके आतिथेयः आसीत् जापानः। प्राक्चतुर्थांशे [pre quarter] जापानः तुर्कीगणेन पराजितः। तं तुर्कीगणं पूर्वान्त्ये [Semi final] ब्रसीलः पराजापयत। ब्रसीलः विश्वविजयी अभवच्च।
ततः २०१० तमे वर्षे आसीत् जापानः knockout प्रविष्टः। तस्मिन् काले pre quarter स्पर्धायां पराग्वे दलेन जापानः पराजितः। quarter स्पर्धायां पराग्वे दलं स्पेयिनः पराजापयत।स्पेयिनः प्रथमतया विश्ववीरः जातः।
२०१८ तमे वर्षे जापानः पुनरपि प्राक्चतुर्थांशे। तत्र बल्जियेन पराजितः। सः बल्जियगणः प्रपूर्वान्त्ये फ्रान्सं प्रति अभिभूतः। तस्मिन् सन्दर्भे विश्वजेता फ्रान्सः!
अतीते 'खत्तरविश्वचषके' जापानं प्राक्चतुर्थांशे क्रोयेष्या पराजापयत। अर्जेन्टीना तां क्रोयेष्यां पूर्वान्त्यप्रतियोगितायाम् अभिभाव्य अन्त्यस्पर्धायां फ्रान्सं पराजित्य विश्वकिरीटं प्राप।
अस्मिन् विश्वचषके जापानः ब्रसीलेन पराजितः। सः ब्रसीलः नोर्वेदलेन पराजितः। तर्हि नोर्वे विश्वविजयी भवेद्वा?
Latest newsLatest news