OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, June 29, 2026

 फिफा विश्वचषकः।

कोलम्बिया - पोर्चिगलस्पर्धा समस्थितौ। 

लक्ष्यस्थानपालकौ कुशलौ। 

मियामी> भारतसमयक्रममनुसत्य रविवासरस्य प्रभाते विधत्ता कोलम्बिया-पोर्चुगल् प्रतियोगिता लक्ष्यकन्दुकरहितसमस्थितौ समाप्ता। 'के' गणस्य अन्तिमस्पर्धा आसीदियम्। आद्यन्तं चटुले उत्साहपूर्णे च प्रतिद्वन्द्वे अलक्ष्याः लक्ष्योपेताः च प्रहराः [shots] बहवः पक्षद्वयेनापि कृताः अपि किमपि लक्ष्यकन्दुकं नाजायत। लक्ष्यस्थानपालकौ [goal keeper] एव अत्र क्रीडाकुशलौ। 

  डीगो कोस्टा पोर्चुगलस्य, कामिलो वर्गासः कोलम्बियाया‌ः च लक्ष्यस्थानपालकौ आस्ताम्। गणे सप्तभिः प्राप्ताङ्कैः कोलम्बिया प्रथमस्थानं, ५ प्राप्ताङ्कैः पोर्चुगलः द्वितीयस्थानं च वहति। आगामिन्यां  निर्णायकप्रतियोगितायां पोर्चुगलः क्रोयेष्यया सह, कोलम्बिया घानादलेन सह च स्पर्धिष्यते।