OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, July 11, 2026

 आयत्तुल्ला खमीनेः अन्त्यक्रियाः सम्पन्नाः। 

टेहरानं>  इरानस्य परमोच्चाद्ध्यात्मिकनेता आयत्तुल्ला खमीनिः इत्यस्य अन्त्यकर्माणि दशसहस्राणां साक्षित्वे सम्पन्नानि। उत्तरपश्चिमेराने 'मष्हद्' नामके खमीनेः जन्मस्थाने गुरुवासरे अपराह्णे आसीत् संस्कारक्रिया। मष्हद् नगरस्थे इमां रिसा देवालये  अस्ति तस्य 'खबर्स्थानम्' [अन्त्यस्थानम्]। 

  शनिवासरे आसीत् अन्त्यक्रियाणाम् आरम्भः। इराखे बहुत्र प्रार्थनाकार्यक्रमाः आयोजिताः। ततः गुरुवासरे विमानमार्गेण मृतदेहः मष्हदमानीतः। खमेनिना सह हताः तस्य पत्नी,पुत्री, पौत्री इत्येषां संस्कारकर्माणि अपि तत्र सम्पन्नानि। सुरक्षासमस्यामालक्ष्य तस्य पुत्रः तथा इदानीन्तनपरमोच्चनेता च मोज्ताबा खमेनिः कार्यक्रमेषु न भागं कृतवान्।