यूरोपे अत्युष्णः।
१५०० मरणानि; महान् क्लेशः। 
अत्युष्णे प्रवृत्ते पारीसे दृश्यम्।
पारीस्> यूरोपभूखण्डे उष्णतरङ्गस्य दुष्प्रभावः वर्धायते। सप्ताहैकेन बहुषु यूरोपीयराष्ट्रेषु १५०० जनाः अत्युष्णपीडया मृत्युंगताः। केवलं फ्रान्से १३०० जनाः मृताः।
जर्मनी, ब्रिटनं, स्पेयिन्, इट्टली इत्यादिषु राष्ट्रेषु तापमानः ४० डिग्रीमिताधिकं प्राप्तः। कतिपयराष्ट्रेषु बडवाग्निः अनुभूयते। डान्यूस्, पो इत्याद्यः नद्यः शुष्काः जाताः। फ्रान्से विद्यालयाः पिहिताः। सप्ताहद्वयं यावदपि अत्युष्णमनुवर्तिष्यते इति तत्रत्येन ऋतुविज्ञानीयविभागेन निगदितम्।