ब्रसील-जापानयोः स्पर्धायां ब्रसीलस्य विजयः।
हूस्टणः> ब्रसील-जापानयोः निर्णायके प्रतिद्वन्द्वे ब्रसीलः एकं विरुध्य लक्ष्यकन्दुकद्वयेन जापानम् अभिभाव्य पूर्वचतुर्धांशं प्रविवेश।
द्वितीयार्धस्य अधिकसमयस्य अन्त्यनिमिषे गब्रियेल् मार्टिल्ली इत्यनेन प्राप्तेन लक्ष्यकन्दुकेनैव ब्रसीलः विजयपथं प्राप।